Header Ads Widget

तन्वादिद्वादश भावस्थित शनिफलमाह ।। Astro Classes, Silvassa.

अथ तन्वादिद्वादश भावस्थित शनिफलमाह ।।
Astro Classes, Silvassa.

तत्रादौ लग्ने शनिफलम् ।।

वातपित्तदेहः || १||
उच्चे पुरग्रामाधिपः धनधान्य समृद्धिः || २||
स्वर्क्षे पितृधनवान् || ३||
वाहनेशकर्मेशक्षेत्रे बहुभाग्यम् || ४||
महाराजयोगः || ५||
चन्द्रमसा दृष्टे भिक्षुकी वृत्तः || ६||
शुभदृष्टे निवृत्तः || ७||

लग्नाद् द्वितीये शनिफलम् ।।

द्रव्याभावः दारद्वयम् || ८||
पापयुते दारवंचनामठाधिपः अल्पक्षेत्रवान् नेत्ररोगी || ९||

लग्नात्तृतीये शनिफलम् ।।

भ्रातृहानिकारकः || १०||
अदृष्टः दुर्वृत्तः || ११||
उच्चस्वक्षेत्रे भ्रातृवृद्धिः || १२||
तत्रपापयुते भ्रातृद्वेषी || १३||

लग्नाच्चतुर्थे शनिफलम् ।।

मातृहानिः द्विमातृवान् || १४||
सौख्यहानिः निर्धनः || १५||
उच्चस्वक्षेत्रे न दोशः || १६||
अश्वान्दीलाद्यवरोही || १७||
लग्नेशेमन्दे मातृदीर्घयुः || १८||
सौख्यवान् || १९||
रन्ध्रेशयुक्ते मत्ररिष्टम् || २०||
सुखहानिः || २१||

लग्नात्पंचमे शनिफलम् ।।

पुत्रहीनः अतिदरिद्री दुर्वृत्तः दत्तपुत्री || २२||
स्वक्षेत्रे स्त्रीप्रजासिद्धिः || २३||
गुरुदृष्टे स्त्रीद्वयम् || २४||
तत्र प्रथमापुत्रा द्वितीया पुत्रवती || २५||
बलयुते मन्दे स्त्रीभिर्युक्तः || २६||

लग्नात्षष्ठे शनिफलम् ।।

अल्पजातिः शत्रुक्षयः || २७||
धनधान्यसमृद्धिः कुजयुते देशान्तर संचारी || २८||
अल्पराजयोगः || २९||
भंगयोगात्क्वचित्सौख्यक्वचिद्योगभंगः || ३०||
रन्ध्रेशे मंदे अरिष्टं वातरोगी शूलव्रणदेही || ३१||

लग्नात्सप्तमे शनिफलम् ।।

शनीरदोषकरः कृशकलत्रः वेश्यासम्भोगवान् अतिदुखी
उच्चस्वक्षेत्रेगते अनेकस्त्रीसम्भोगी || ३२||
केतुयुते स्त्रीसम्भोगी || ३३||
कुजयुते शिश्नचुम्बनपरः || ३४||
शुक्रयुते भगचुम्बनपरः || ३५||
परस्त्रीसम्भोगी || ३६||

लग्नादष्टमे शनिफलम् ।।

त्रिपादायुः दरिद्री शूद्रस्त्रीरतः सेवकः || ३७||
उच्चस्वक्षेत्रे दीर्घयुः || ३८||
अरिनीचगे भावाधिपे अल्पायुः || ३९||
कष्टान्नभोगी || ४०||

लग्नान्नवमे शनिफलम् ।।

पतितः जीर्णोद्धारकरः एकोनचत्वारिंशद्वर्षे
तटाकगोपुरनिमर्णकर्त्ता || ४१||
उच्चस्वक्षेत्रे पितृदिर्घयुः || ४२||
पापयुते दुर्बले पित्ररिष्टवान् || ४३||

लग्नाद्दशमे शनिफलम् ।।

पंचविंशतिवर्षे गंगास्नायी अतिलुब्धः पित्तशरीरी || ४४||
पापयुते कर्मविघ्नकरः शुभयुते कर्मसिद्धिः || ४५||

लग्नादेकादशे शनिफलम् ।।

बहुधनी विघ्नकरः भूमिलाभः राजपूजकः || ४६||
उच्चे स्वक्षेत्रे वा विद्वान् || ४७||
महाभाग्ययोगः बहुधनी वाहनयोगः || ४८||

लग्नाद्द्वादशे शनिफलम् ।।

पतितः विकलंगः || ४९||
पापयुते नेत्रच्छेदः || ५०||
शुभयुते सुखी सुनेत्रः पुण्यलोकप्राप्तिः || ५१||
पापयुते नरक प्राप्तिः || ५२||
अपात्रव्ययकारी निर्धनः || ५३||

Post a Comment

0 Comments