Header Ads Widget

तन्वादिद्वादशभावस्थित गुरूफलमाह ।। Astro Classes, Silvassa.

अत्र तन्वादिद्वादशभावस्थित गुरूफलमाह ।।
Astro Classes, Silvassa.

तत्रादौ लग्ने गुरुफलम् ।।


स्वक्षेत्रे शब्दशास्त्राधिकारी || १||
त्रिवेदी बहुपुत्रवान् सुखी चिरायुः जानवान् || २||
उच्चे पूर्नफलानि || ३||
षोडशवर्षे महाराजयोगः || ४||
अरिनीचपापानां क्षेत्रे पापायुते वा नीचकर्मवान् || ५||
मनश्चलत्ववान् मध्यायुः पुत्रहीनः स्वजनपरित्यागी
कृतघ्नः गर्विश्ठः बहुजनद्वेषी सांचरवान् पापक्लेशभोगी || ६||

लग्नाद् द्वितीये गुरुफलम् ।।

धनवान् बुद्धिमान् इष्टभाषी षोडशवर्षे धनधान्यसमृद्धिः
बहुप्राबल्यवान् उच्चस्वक्षेत्रे धनुषि द्रव्यमान् || ७||
पापयुते विद्याविघ्नः || ८||
चोरवंचनवान् दुर्वचनः अनृतप्रियः || ९||
नीचक्षेत्रे पापयुते मद्यपानी भ्रष्टः || १०||
कुलनाशकः || ११||
कलत्रान्तरयुक्तः पुत्रहीनः || १२||

लग्नात्तृतीये गुरुफलम् ।।

अतिलुब्धः भ्रातृवृद्धिः दाक्षिण्यवान् संकल्प सिद्धिकरः || १३||
बन्धुदोषकरः || १४||
अष्टशत्रिंद्वर्षे यात्रासिद्धिः || १५||
भावाधिपे बलयुते भ्रातृदीर्घयुः || १६||
भावाधिपे पापयुते भ्रातृनाशः || १७||
भैर्यहीनः जदबुद्धिः दरिद्रः || १८||

लग्नाच्चतुर्थे गुरुफलम् ।।

सुखी क्षेत्रेवान् बुद्धिमान् क्षीरसमृद्धिः सन्मनाः मेधावी || १९||
भावाधिपे बलयुते भृगुचन्द्रयुक्ते शुभवर्गेन नरवाहनयोगः || २०||
बहुक्षेत्रः अश्ववाहनयोगः गृहविस्तरवान् || २१||
पापयुतः पापिनः दृष्टवशात् क्षेत्रवाहनहीनः || २२||
परगृहवासः क्षेत्रहीनः मातृनाशः बन्धुद्वेषी || २३||

लग्नात्पंचमे गुरुफलम् ।।

बुद्धिचातुर्यवान् विशालेक्षणः वाग्मी प्रतापी अन्नदानप्रियः
कुलप्रियः अष्टादशवर्षे राजद्वारेण सेनाधिपत्य योगः || २४||
पुत्रसमृद्धिः || २५||
भावाधिपे बलयुते पापक्षेत्रे अरिनीचगे पुत्रनाशः || २६||
एकपुत्रवान् || २७||
धनवान् || २८||
राजद्वारे राजमूलेन धनव्ययः || २९||
रहुकेतुयुते सर्पशापात् सुतक्षयः || ३०||
शुभदृष्टे परिहारः || ३१||

लग्नात्षष्ठे गुरुफलम् ।।

शत्रुक्षयः जातिवृद्धिः पौत्रादिदर्शनं व्रणशरीरः
शुभयुते रोगाभावः || ३२||
पापयुते पापक्षेत्रे वातशैत्यादिरोगः || ३३||
मन्दक्षेत्रे राहुयुते महारोगः || ३४||

लग्नात्सप्तमे गुरुफलम् ।।

विद्याधनेशः बहुलाभप्रदः चिन्ताधिकः विद्यवान्
पातिव्रत्यभक्तियुतकलत्रः || ३५||
भावाधिपे बलहीने राहुकेतुशनिकुजयुते
पापवीक्षणाद्वकलत्रान्तरम् || ३६||
शुभयुते उच्चस्वक्षेत्रे एकदारवान् कलत्रद्वारा बहुवित्तवान् सुखी
चतुस्त्रिम्शद्वर्षे प्रतिष्ठासिद्धिः || ३७||

लग्नादष्टमे गुरुफलम् ।।

अल्पायुः नीचकृत्यकारी || ३८||
पापयुते पतितः || ३९||
भावाधिपे सुभयुते रन्ध्रे दीर्घयुः || ४०||
बलहीने अल्पायुः || ४१||
पापयुते सप्तदशवर्षदुपरि विधवासंगमो भवति || ४२||
उच्चस्वक्षेत्रे दीर्घयुः बलहीनः अरोगी योगपौरुषः विद्वान्
वेदशास्त्रविचक्षणः || ४३||

लग्नान्नवमे गुरुफलम् ।।

धार्मिकः || ४४||
तपस्वी साधुतारूढः धनिकः पंचत्रिंशद्यजकर्ता पित्रुदीर्घयुः
सत्कर्मसिद्धिः अनेकप्रतिष्ठावान् बहुजनपालकः || ४५||

लग्नाद्दशमे गुरुफलम् ।।

धार्मिक शुभकर्मकारी गीतापाठकः योग्यतावान् प्रौढकीर्तिः
बहुजनपूज्यः || ४६||
भावाधिपे बलयुते विशेषक्रतुसिद्धिः || ४७||
पापयुते पापक्षेत्रे कर्मविघ्नः || ४८||
दुष्कृतियात्रालाभहीनः || ४९||

लग्नादेकादशे गुरुफलम् ।।

विद्वान् धनवान् बहुलाभवान् द्वात्रिंशद्वर्षे अश्वारूढः || ५०||
अनेक प्रतिष्ठासिद्धिः || ५१||
शुभपापयुते गजलाभः || ५२||
भाग्यवृद्धिः चन्द्रयुते निक्षेपलाभः || ५३||

लग्नाद्द्वादशे गुरुफलम् ।।

निर्धनः पठितः अल्पपुत्रः गणितशास्त्रजः सम्भोगी || ५४||
ग्रन्थिव्रणी अयोग्यः || ५५||
शुभयुते उच्चस्वक्षेत्रे स्वर्गलोकप्राप्तिः || ५६||
पापयुते पापलोकप्राप्तिः || ५७||
धर्ममूलेन धनव्ययः ब्राह्मणस्त्रीसम्भोगी गर्भिनीसम्भोगमी || ५८||

Post a Comment

0 Comments