Header Ads Widget

तन्वादिद्वादश भावस्थित भृगुफलमाह ।। Astro Classes, Silvassa.

अथ तन्वादिद्वादश भावस्थित भृगुफलमाह ।।
Astro Classes, Silvassa.
तत्रादौ लग्ने भृगुफलम् ।।


गणितशास्त्रजः || १||
दीर्घयुः दारप्रियः वस्त्रालंकारप्रियः रूपलावण्यप्रियः  गुणवान् || १२||
स्त्रीप्रियः धनीविद्वान् || ३||
शुभयुते अनेक भूषणवान् || ४||
स्वर्णकान्तिदेहः || ५||
पापवीक्षतयुते नीचास्तगते चोरवंचनवान् || ६||
वातश्लेष्मादिरोगवान् || ७||
भावाधिपे राहुयुते बृहद्विद्वीजो भवति || ८||
वाहने शुभयुते गजान्तैश्वर्यवान् || ९||
स्वक्षेत्रे महाराजयोगः || १०||
रन्ध्रे षष्ठाव्ययाधिपेशुक्रे दुर्बले स्त्रीद्वयं || ११||
चंचलभाग्यः || १२||
क्रूरबुद्धिः || १३||

लग्नाद् द्वितीये भृगुफलम् ।।

धनवान् कुटुम्बी सुखोजनः विनयवान् || १४||
नेत्रे विलासधनवान् सुमुखः || १५||
द्यावान् परोपकारी || १६||
द्वत्रिंषद्वर्षे उत्तमस्त्रीलाभः || १७||
भावाधिपे दुर्बलः दुःस्थाने नेत्रवपरीत्यं भवति || १८||
शशियुते निशान्धः कुटुम्बहीनो नेत्ररोगी धननाशकरः || १९||

लग्नात्तृतीये भृगुफलम् ।।

अतिलुब्धः दाक्षिण्यवान् भ्रातृवृद्धिः संकल्पसिद्धिः पश्चात्
सहोदराभावः || २०||
क्रमेण भ्रातृतत्परः वित्तभोगपरः || २१||
भावाधिपे बलयुते उच्चस्वक्षेत्रे भ्रातृवृद्धिः दुःस्थाने
पापयुते भ्रातृनाशः || २२||

लग्नाच्चतुर्थे भृगुफलम् ।।

शोभनवान् बुद्धिमान् भ्रातृसौख्यं सुखी क्षमावान् || २३||
त्रिंशद्वर्षे अश्ववाहनप्राप्तिः || २४||
क्षीरसमृद्धिः भावाधिपे बलयुते
अश्वान्दोलिकाकनकचतुरंगादिदृद्धिः || २५||
तत्रपापयुते पापक्षेत्रे अरिनीचगे बलहीने क्षेत्रेवाहनहीनः || २६||
मातृक्लेशवान् || २७||
कलत्रान्तरभोगी || २८||

लग्नात्पंचमे भृगुफलम् ।।

बुद्धिमान् मंत्री सेनापतिः || २९||
मातामही दृश्वायौवनदार पुत्रवान् || ३०||
राजसन्मानी मंत्री सुजः स्त्रीप्रसन्नतावृद्धिः || ३१||
तत्रपापयुते पापक्षेत्रे अरिनीचगे बुद्धिजाड्ययुतः पुत्राशः || ३२||
तत्रशुभयुते बुद्धिमान् नीतिमत्पुत्रसिद्धिः वाहनयोगः || ३३||

लग्नाषष्ठे भृगुफलम् ।।

जातिप्रजासिद्धि शत्रुक्षयह् पुत्रपौत्रवान् || ३४||
अपात्रव्ययकारी मायावादी रोगवान् आर्यपुत्रवान् || ३५||
भावाधिपे बलयुते शत्रुजातिर्द्धिः शत्रुपापयुते नीचस्थे
भावेशेन्दुस्थे शत्रुजातिनाशः || ३६||

लग्नात्सप्तमे भृगुफलम् ।।

अतिकामिकः मुखचुम्बकः || ३७||
अर्थवान् परदाररतः वाहनवान् सकलकार्यनिपुणः स्त्रीद्वेषी
सत्प्रधान जनबन्धुकलत्रः || ३८||
पापयुते शत्रुक्षेत्रे अरिनीचगे कलत्रनाशः || ३९||
विवाहद्वयम् || ४०||
बहुपापयुते अनेककलत्रान्तर प्राप्तिः || ४१||
पुत्रहीनः || ४२||
शुभयुते उच्चे स्वक्षेत्रे तुले कलत्रदेशे बहुवित्तवान् || ४३||
कलत्रमूलेन बहुप्राबल्ययोगः स्त्रीगोष्ठिः || ४४||

लग्नादष्टमे भृगुफलम् ।।

सुखी चतुर्थे वर्षे मातृगन्डः || ४५||
अर्धयुः रोगीहितदारवान् असन्तुष्टः || ४६||
शुभक्षेत्रे पुर्णयुः || ४७||
तत्र पापयुते अल्पायुः || ४८||

लग्नान्नवमे भृगुफलम् ।।

धर्मिकः तपस्वी अनुष्ठनपरः || ४९||
पादेबहूत्तमलक्षणः धर्मी भोगवृद्धिः सुतदारवान् || ५०||
पितृ दीर्घयुः || ५१||
तत्र पापयुते पित्ररिष्टवान् || ५२||
पापयुते पापक्षेत्रे अरिनीचगे धनहानिः || ५३||
गुरुदारगः || ५४||
शुभयुते भाग्यवृद्धिः || ५५||
महाराजयोगः || ५६||
वाहनकामेशयुते महाभाग्यवान् अश्वान्दोल्यादि वाहनवान् || ५७||
वस्त्रालंकारप्रियः || ५८||

लग्नाद्दशमे भृगुफलम् ।।

बहुप्रतापवान् पापयुते कर्मविघ्नकरः
गुरुबुधचन्द्रयुते अनेकवाहनारोहणवान् || ५९||
अनेकऋतुसिद्धिः || ६०||
दिगन्तविश्रुतकीर्तिः अनेकराजयोगः बहुभाग्यवान् वाचालः || ६१||

लग्नादेकादशे भृगुफलम् ।।

विद्वान् बहुधनवान् भूमिलाभवान् दयावान् शुभयुते
अनेक वाहनयोगः || ६२||
पापयुते पापमूलद् धनलाभः || ६३||
शुभयुते शुभमुलात् नीचर्क्षे पापरन्ध्रेशादियोगे लाभहीनः || ६४||

लग्नाद्द्वादशे भृगुफलम् ।।

बहुलदारिद्रयवन् || ६५||
पपयुते विषयलुब्धपरः || ६६||
शुभयुक्तश्चेत् बहुधनवान् || ६७||
श्य्याखट्वंगादिसौख्यवान् शुभलोकप्राप्तिः
पापयुते नरकप्राप्तिः || ६८||

Post a Comment

0 Comments