Header Ads Widget

तन्वादिद्वादशभावस्थितचन्द्रफलमाह ।। Astro Classes, Silvassa.

अथ तन्वादिद्वादशभावस्थितचन्द्रफलमाह ।।
Astro Classes, Silvassa.

तत्रादौ लग्ने चन्द्रफलम् ।।


रूपलावण्ययुक्तश्चपलः व्याधिना जलाच्चसौख्यः || १||
पंचदशवर्षे बहुयात्रावन् || २||
मेषवृषभकर्कलग्ने चन्द्रेशास्त्र परः || ३||
धनी सुखी नृपालः मृदुवक् बुद्धिरहितः मृदुगात्रः बली || ४||
शुभदृष्टे बलवान् || ५||
बुद्धिमान् आरोग्यवान् वाग्जालकः धनी || ६||
लग्नेशे बलरहिते व्याधिमान् || ७||
शुभदृष्टे आरोग्यवान् || ८||

लग्नाद्द्वितीये चन्द्रफलम् ।।

शोभनवान् बहुप्रतापी धनवान अल्पसन्तोषि || ९||
अष्टादशवर्षे राजद्वरेण सेनाधिपत्योगः || १०||
पापयुतेविद्याहीनः || ११||
शुभयुते बहुविद्याधनवान् || १२||
एकेनैवपूर्णचन्द्रेण संपूर्णधनवान् || १३||
अनेक विद्यावान् || १४||

लग्नाद्तृतीये चन्द्रफलम् ।।

भगिनीसामान्यः वातशरीरी अन्नहीनः अल्पभाग्यः || १५||
चतुर्विंशतिवर्षे भाविरुपेन राजदंडेन द्रव्यच्छेदः || १६||
गोमहिष्यादिहीनः || १७||
पिशुनः मेधावी सहोदर वृद्धि || १८||

लग्नाच्चतुर्थे चन्द्रफलम् ।।

राज्याभिशिक्तः अश्ववान् क्षीरसमृद्धिः धनधान्यसमृद्धिः
मतृरोगी || १९||
परस्त्रीस्तनपानकारी || २०||
मिष्ठान्नसम्पन्नः परस्त्रीलोलः सौख्यवान् || २१||
पूर्णचन्द्रं स्वक्षेत्रे बलवान् मतृदीर्घयुः क्षीणचन्द्रे
पापयुते मातृनाशः || २२||
वाहनहीनह् बलयुते वाहनसिद्धिः || २३||
भावाधिपे स्वोच्चे अनेकाश्वादिवाहनसिद्धिः || २४||

लग्नात्पंचमे चन्द्रफलम् ।।

स्त्रीदेवतासिद्धिः भर्यरूपवती || २५||
क्वचित् कोपवती || २६||
स्तनमध्येलंछनं भवति || २७||
चतुष्पादलाभः स्त्रीद्वयम् बहुक्षीरलाभः सत्त्वयुतः
बहुश्रमोत्पन्नः चिन्तावान् स्त्रीप्रजावान् एकपुत्रवान् || २८||
स्त्रीदेवतोपासनावान् || २९||
शुभयुते वीक्षणवशादनुग्रहसमर्थः || ३०||
पापयुतेक्षणवशान्निग्रहसमर्थः || ३१||
पूर्णचन्द्रे बलवान् अन्नदानप्रीतिः अनेकबुधप्रसादैश्वर्यसम्पन्नः
सत्कर्मकृत् भाग्यसमृद्धिः राजयोगी जानवान् || ३२||

लग्नात्षष्टे चन्द्रफलम् ।।

अधिकदारिद्रयदेही || ३३||
षट्त्रिंशद्वर्षे विधवासंगमी तत्र पापयुते हीनपापकरः || ३४||
राहुकेतुयुते अर्थहीनः || ३५||
घोरः शत्रुकलहवान् सहोदरहीन अग्निमंद्यादिरोगी || ३६||
तटाककूपादिषु जलादिगण्डः || ३७||
पापयुते रोगवान् || ३८||
क्षीणचन्द्रे पूर्नफलानि || ३९||
शुभयुते बलवान् अरोगी || ४०||

लग्नात्सप्तमे चन्द्रफलम् ।।

मृदुभाशी पार्श्वनेकः द्वात्रिंशद्वर्षे स्त्रीयुक्तः || ४१||
स्त्रीलोलः स्त्रीमूलेन ग्रंथिशस्त्रादिपीडा || ४२||
राजप्रसादलाभः || ४३||
भावाधिपे बलयुते स्त्रीद्वयम् || ४४||
क्षीणचन्द्रे कलत्रनाशः पूर्नचन्द्रे बलयुते
स्वोच्चे एकदारवान् || ४५||
भोगलुब्धः || ४६||

लग्नादष्टमे चन्द्रफलम् ।।

अल्पवाहनवान् || क्||
तडाकादिषुगण्डः || ख्||
स्त्रीमूलेनबंधुजन परित्यागी || ग्||
स्वर्क्षे स्वोच्चे दीर्घयुः क्षीने वा मध्यमायुः || घ्||

लग्नान्नवमे चन्द्रफलम् ।।

बहुश्रुतवन् पुण्यवान् || ४७||
तटाकगोपुरदिनिर्मण पुण्यकर्ता || ४८||
पुत्रभाग्यवान् || ४९||
पूर्णचन्द्रे बलयुते बहुभाग्यवान् || ५०||
पितृदीर्घयुः || ५१||
पापयुते पापक्षेत्रे भाग्यहीनः || ५२||
नष्टपितृमातृकः || ५३||

लग्नाद्दशमे चन्द्रफलम् ।।

विद्यावान् || ५४||
पापयुते सप्तविंशतिवर्षे विधवासंगमेन जनविरोधी || ५५||
अतिमेधावी || ५६||
सत्यकर्मनिरतः कीर्तिमान् दयावान् || ५७||
भावाधिपे बलयुते विशेसत्कर्मसिद्धिः || ५८||
पापनिरिक्षिते पापयुते वा दुष्कृतिः || ५९||
कर्मविघ्नकरः || ६०||

लग्नादेकादशे चन्द्रफलम् ।।

बहुश्रुतवान् पुत्रवान् उपकारि || ६१||
पंचाशद्वर्षेपुत्रर्णबहुप्राबल्ययोगः || ६२||
गुणाढ्यः || ६३||
भावाधिपे बलहीने बहुधन व्ययः || ६४||
बलयुते लाभवान् || ६५||
लाभेचन्द्रे निक्षिपलाभः || ६६||
शुक्रयुतेन नरवाहन-योग || ६७||
बहुविद्यावान् || ६८||
क्षेत्रवान् अनेकजनरक्षणभाग्यवान् || ६९||

लग्नाद्द्वादशे चन्द्रफलम् ।।

दुर्भोजनः दुष्पात्रव्ययः कोपोद्भवव्यसन समृद्धिमान्
स्त्रीयोगयुक्तः अन्न हीनः || ७०||
शुभयुते विद्वान् दयावान् पापशत्रुयुते पापलोकः
शुभमित्रयुते श्रेष्ठलोकवान् || ७१||

Post a Comment

0 Comments