Header Ads Widget

तन्वादिद्वादश भावस्थित राहुकेत्वोः फलमाह ।। Astro Classes, Silvassa.

अथ तन्वादिद्वादश भावस्थित राहुकेत्वोः फलमाह ।।
Astro Classes, Silvassa.

तत्रादौ लग्ने राहुकेत्वोः फलम् ।।


मृतप्रसूतिः || १||
मेषवृषभकर्कराशिस्थे द्यावान् || २||
बहुभोगी || ३||
अशुभे शुभदृष्टे मुखलंञ्छनी || ४||

लग्नाद्द्वितीये राहुकेत्वोः फलम् ।।

निर्धनः देहव्याधिः पुत्रशोकः श्यामवर्णः || ५||
पापयुते चुबुके लाम्ञ्छनम् || ६||

लग्नात्तृतीये राहुकेत्वोः फलम् ।।

तिलनिष्पावमुद्रकोद्रवसमृद्धिवान् || ७||
शुभयुते कंठलांछनम् || ८||

लग्नाच्चतुर्थे राहुकेतुफलम् ।।

बहुभूषणसमृद्धिः जायाद्वयं सेवकः ।।
मातृक्लेशः पापयुते निश्चयेन || ९||
शुभयुतदृष्टे न दोषः || १०||

लग्नात्पंचमे राहुकेत्वोः फलम् ।।

पुत्राभावः सर्वशापात् सुतक्षयः || ११||
नाग प्रतिष्ठया पुत्रप्राप्तिः || १२||
पवनव्याधिः दुर्मर्गी राजकोपः दुष्टग्रामवासी || १३||

लग्नात्षष्ठे राहुकेत्वोः फलम् ।।

धीरवान् अतिसुखी || १४||
इन्दुयुते राजस्त्रीभोगी || १५||
निर्धनः चोरः || १६||

लग्नात्सप्तमे राहुकेत्वोः फलम् ।।

दारद्वयं तन्मध्ये प्रथमस्त्रीनाशः द्वितीए कलत्रे गुल्मव्याधिः || १७||
पापयुते गण्डोत्पत्तिः || १८||
शुभयुते गण्डनिवृत्तिः || १९||
नियमेन दारद्वयम् || २०||
शुभयुते एकमेव || २१||

लग्नादष्टमे राहुकेत्वोः फलम् ।।

अतिरोगी द्वत्रिंशद्वर्षयुष्मान || २२||
शुभयुते पञ्चचत्वारिंशद्वर्षे भावाधिपे बलयुते
स्वोच्चेषष्टिवर्षणिवा जीवितम् || २३||

लग्नान्नवमे राहुकेत्वोः फलम् ।।

पुत्रहीनः शूद्रस्त्रीसम्भोगी सेवकः धर्महीनः || २४||

लग्नाद्दशमे राहुकेत्वोः फलम् ।।

वितन्तुसंगमः || २५||
दुर्ग्रामवासः || २६||
शुभयुते न दोषः || २७||
काव्यव्यसनः || २८||

लग्नादेकादशे राहुकेत्वोः फलम् ।।

पुत्रिः समृद्धिः || २९||
धनधान्यसमृद्धिः || ३०||

लग्नाद्द्वादशे राहुकेत्वोः फलम् ।।

अल्पपुत्रः || ३१||
नेत्ररोगी पापगतिः || ३२||

Post a Comment

0 Comments