Header Ads Widget

तन्वादिद्वादशभावस्थित भौमफलमाह ।। Astro Classes, Silvassa.

अथ तन्वादिद्वादशभावस्थित भौमफलमाह ।।
Astro Classes, Silvassa.

तत्रादौ लग्ने भौमफलम् ।।


देहे व्रणं भवति || १||
दृढगात्रः चौरबुभूषकः बृहन्नाभि रक्तपाणिः
शूरो बलवान् मूर्खः कोपवान् सभानशौर्य धनवान्
चापलवान् चित्ररोगी क्रोधी दुर्जनः || २||
स्वोच्चे स्वक्षेत्रे आरोग्यम् दृढ्गात्रवान् राजसन्मान कीर्तिः || ३||
दीर्घयुः || ४||
पापशत्रुयुते अल्पायु || ५||
स्वल्पपुत्रवान् वातशूलादिरोगः दुर्मुखः || ६||
स्वोच्चे लग्नर्क्ष धनवान् || ७||
विद्यावान् नेत्रविलासवान् || ८||
तत्र पापयुते पापक्षेत्रे पापदृश्टयुते नेत्र रोगः || ९||

लग्नाद्वितीये भौमफलम् ।।

विद्याहीनः लाभवान् || १०||
पष्ठाधिपेनयुतः तिष्ठति चेन्नेत्रवैपरीत्यं भवति || ११||
शुभदृष्टे परिहारः || १२||
स्वोच्चे स्वक्षेत्रे विद्यावान् || १३||
नेत्र विलासः || १४||
तत्र पापयुतेक्षेत्रे पापदृष्टे नेत्ररोगः || १५||

लग्नात्तृतीये भौमफलम् ।।

स्वस्त्री व्यभिचारिणी || १६||
शुभदृष्टे न दोष अनुजहीनः || १७||
द्रव्यलाभः || १८||
राहुकेतुयुते वेश्यासंगमः || १९||
भ्रातृद्वेषी क्लेशयुतः शुभगः || २०||
अल्पसहोदरः || २१||
पापयुते पापवीक्षणेन भ्रातृनाशः || २२||
उच्चस्वक्षेत्रे शुभयुते भ्राता दीर्घयुः धैर्यविक्रमवान् || २३||
युद्धे शूरः || २४||
पापयुते मित्रक्षेत्रे धृतिमान् || २५||

लग्नाच्चतुर्थे भौमफलम् ।।

ग्रहच्छिद्रम् || २६||
अष्टमे वर्षे पित्रारिष्टं मातृरोगी || २७||
सौम्ययुते परगृहवासः || २८||
निरोगशरिरि क्षेत्रहीनः धनधान्यहीनः जीर्णगृहवासः || २९||
उच्चे स्वक्षेत्रे शुभयुते मित्रक्षेत्रे वाहनवान् क्षेत्रवान्
मातृदीर्घयुः || ३०||
नीचर्क्षे पापमृत्युयुते मातृनाशः || ३१||
सौम्ययुते वाहन निष्ठावान् || ३२||
बन्धुजनद्वेषी स्वदेशपरित्यागी वस्त्रहीनः || ३३||

लग्नात्पंचमे भौमफलम् ।।

निर्धनः पुत्राभावः दुर्मार्गी राजकोपः || ३४||
षष्ठवर्षे आयुधेन किंचिदण्डकालः || ३५||
दुर्वसन जानशीलवान् || ३६||
मायावादी || ३७||
तीक्षणधीः || ३८||
उच्चे स्वक्षेत्रे पुत्रसमृद्धिः अन्नदान्प्रियः || ३९||
राजाधिकारयोगः शत्रुपीडा || ४०||
पापयुते पापक्षेत्रे पुत्रनाशः || ४१||
बुद्धि भ्रंशादिरोगः || ४२||
रन्ध्रेशे पापयुते पापी || ४३||
वीरः || ४४||
दत्त पुत्र योगः || ४५||

लग्नात्षष्ठे भौमफलम् ।।

प्रसिद्धः || ४६||
कार्यसमर्थः || ४७||
शत्रुहन्ता पुत्रवान् सप्तविंशति वर्षे कन्यकाश्वादि युत ऊढवान् || ४८||
शत्रुक्षयः || ४९||
शुभर्क्षे शुभयुते शुभदृष्टे पूर्णफलानि || ५०||
वातशूलादिरोगः || ५१||
बुधक्षेत्रे युते कुष्ठरोगः || ५२||
शुभदृष्ते परिहारः || ५३||

लग्नात्सप्तमे भौमफलम् ।।

स्वदार पीडा || ५४||
पापार्ते पापयुतेन च स्वर्क्षे स्वदार हानिः || ५५||
शुभयुते जीवति पत्यौ स्त्रीनाशः || ५६||
विदेशपरः || ५७||
उच्चमित्र स्वक्षेत्र शुभयुते पपक्षेत्रे ईक्षणवशात्कलत्र नाशः || ५८||
अथवा चोरव्यभिचार मूलेन कलत्रान्तरं दुष्टस्त्रीसंगः || ५९||
भगचुम्बनवान || ६०||
चतुष्पाद मैथुनवान् मद्यपानाप्रियः || ६१||
मन्दयुते दृष्ते शिश्नचुंबन परः || ६२||
केतुयुते रजस्वला स्त्री सम्भोगी || ६३||
तत्रशत्रुयुते बहुकलत्रनाशः || ६४||
अवीरः अहंकारी वाशुभदृष्टे न दोषः || ६५||

लग्नादष्टमे भौमफलम् ।।

नेत्ररोगी अर्धायुः पित्ररिष्टं मूत्रकृच्छृरोगः || ६६||
अल्पपुत्रवान् वातशूलादिरोगः दारसुखयुतः || ६७||
शुभयुते देहारोग्याम् दीर्घयु मुनष्यादि वृद्धिः || ६८||
पापक्षेत्रे पापयुते ईक्षणवशाद्वात क्ष्यादि रोगः
पूत्रकृच्छृधिक्यं वा || ६९||
मध्यमायुः || ७०||
भावाधिपबलयुते पूर्नायुः || ७१||

लग्नान्नवमे भौमफलम् ।।

पित्रारिष्टम् || ७२||
भाग्यहीनः || ७३||
उच्चस्वक्षेत्रे गुरुदारगः || ७४||

लग्नाद्दशमे भौमफलम् ।।

जनवल्लभः || ७५||
भावाधिपे बलयुते भ्राता दीर्घयुः || ७६||
विशेश भाग्यवान् ध्यानशीलवान् गुरुभक्ति युतः || ७७||
पापयुते कर्मविघ्नवान् || ७८||
शुभयुते शुभक्षेत्रे कर्मसिद्धिः || ७९||
कीर्तिप्रतिश्ठावान् अष्टादशवर्षे द्रव्यार्जन समर्थः || ८०||
सर्वसमर्थः दृढगात्र चोरबुद्धिः पापयुते
पापक्षेत्रे कर्मविघ्नकरः || ८१||
दुष्कृतिः || ८२||
भाग्येश कर्मेशयुते महाराजयौवराज्ये पत्ताभिषेकवान् || ८३||
गुरुयुते गजान्तैश्वर्यवान् || ८४||
बूसमृद्धिमान् || ८५||

लग्नादेकदश भौमफलम् ।।

बहुकृत्यवान् धनी स्वगुने राशुलाभवान् || ८६||
क्षेत्रेशयुते राजाधिपत्यवान् || ८७||
शुभद्वययुते माहाराजाधिपत्ययोगः || ८८||
भ्रातृवित्तवान् || ८९||

लग्नाद्द्वादशे भौमफलम् ।।

द्रव्याभावः वातपित्तदेहः || ९०||
पापयुते दाम्भिकः || ९१||

Post a Comment

0 Comments