Header Ads Widget

फलदीपिका ।। षोडशोऽध्यायः ।। द्वाद्श भावफल ।। Astro Classes, Silvassa.

।। फलदीपिका ।।
अथ षोडशोऽध्यायः ।। द्वाद्श भावफल ।।
Astro Classes, Silvassa.


लग्ननवंशपतुल्यतनुः स्याद्वीर्ययुत्तग्रहतुल्यतनुर्वा
चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः || १||
लग्नेशे केन्द्रकोणे स्फुटकरनिकरे स्वोच्चभे वा स्वभे वा
केन्द्रादन्यत्रसंस्थे निधनभवनपे सौम्ययुक्ते विलग्ने |
दीर्घयुष्मान्धनाढ्यो महितगुणयुतो भूमिपालप्रशस्तो
लक्ष्मीवान् सुन्दराङ्गो दृढतनुरभयो धार्मिकः सत्कुटुम्बी || २
सत्संबन्धयुते कलेवरपतौ सद्ग्रामवासोऽथवा
सत्सङ्गः प्रबलग्रहेण सहिते विख्यातभूपाश्रयः |
स्वोच्चस्थे नृपतिः स्वयं स्वगृहगे तज्जन्मभूमौ स्थितिः
सञ्चारश्चरभे स्थितिः स्थिरगृहे द्वद्वं द्विरूपं फलम् || ३||
विख्यातः किरणोज्वले तनुपतौ सुस्थे सुखी वर्धनो
दुःस्थे दुःख्यसदृक्षनीचभवने वासो निकृष्टस्थले |
स्वस्थो जीवति शक्तिमत्युदयभे वर्द्धिष्णरूर्जस्वलो
निःशक्तौ निहतो विपद्भिरसकृत्खिन्नो भवेदातुरः || ४||
अर्थस्वामिनि मुख्यभावजुषि सत्स्वर्थे कुटुम्बश्रिया
सर्वोत्कृष्टगुणो धनी च सुमुखी स्याद्दूरदर्शी नरः |
सम्बन्धे सवितुर्द्वितीयपतिना लोपकारक्षमाण्
विद्यामर्थमवाप्नुयादथ शनेः क्षुद्राल्पविद्यारतः || ५||
जैवे वैदिकधर्मशास्त्रनिपुणो बौधेऽर्थशस्त्रे पदुः
शृ~गरोक्ति पटुर्भृगोर्हिमरुचेः किञ्चित्कलाविध्भवेत् |
कौजे क्रूरकला पटुश्च पिशुनो राहौ स्थिते लोहलः
केतौ भ्रश्यदलीकवाग्धनगतिः पापैश्च मूढोऽधनः || ६||
बन्धो यदि स्यात्तनुशौर्यनाथगो-
रन्योन्यराशिस्थतयोर्बलाढ्ययोः |
धैर्यं च शौर्यं सहजानुकूलतां
प्राप्नोत्ययं साहसकार्यकर्तृताम् || ७||
शौर्यपे बलिनि सद्ग्रहयुक्ते कारकेऽपि शुभभावमुपेते |
भ्रातृ वृद्धिरथ वीर्यविहीने दुःस्थने भवति सोदरनाशः || ८||
अयुग्मराशौ यदि कारकेशौ
गुर्वर्कभूसूनुनिरीक्षितौ चेत् |
ओजो गृहः स्याददि विक्रमाख्यः
पुंभ्रातरस्त्वंशवशाड्भवेयुः || ९||
दुःस्थाने सुखपे शशिन्यपि सतां योगेक्षणैर्वजिते
पापान्तःस्थितिमत्यसद्ग्रहयुते दृष्टे जनन्या मृतिः
एतौ द्वावपि वीर्यगौ शुभयुतौ दृष्टौ शुभैर्बन्धुगै-
र्मातुः सौख्यकरौ विधोश्च सुखगैः सौम्यैर्वदेत्तत्सुखम् || १०||
लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणी
योगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम् |
अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्ठमे वा तयो
र्मातुर्नोपकरोति नाशसगये बन्धस्तयोर्वा न चेत् || ११||
मात्रृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु |
भावकरकभावेशलग्नलग्नेश्वरैर्वदेत् || १२||
सुस्थौ सुखेशभृगुजौ तनुबन्धुयुक्ता
वान्दोलिकां जनपतेश्वरतां विधत्तः |
स्वर्णद्यनर्ध्यमणिभूषणपट्टशय्या-
कामोपभोगकरणानि च गोगजाश्वान् || १३||
दुःस्थे सुखेशे कुजसूर्यक्ते
सुखेऽपि वा जन्मगृहं प्रदग्धम् |
जीर्णं तमोमन्दयुतेऽरियुक्ते
परैर्हृतं गोक्षितिवाहनाद्यम् || १४||
सौम्यर्क्षंशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे |
वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत् || १५||
स्थितिः पापानां वा द्विषति बलयुक्तारिपतिना
युतो वा दृष्टो वा यदि रिपुगृहे वा तनुपतिः |
अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतो
रिपूणां पीडां द्राग्भृशमपरिहार्यं वितनुते || १६||
षष्ठेश्वरादतिबलिन्युदयाधिनाथे
सौम्यग्रहांशसहिते शुभदृष्टयुक्ते |
सौख्येश्वरेऽपि सबले यदि केन्द्रकोणे-
ष्वारोग्यमाग्यसहितो दृढगात्रयुक्तः || १७||
शत्रुनाथे तु दुःस्थाने नीचमूढारिसंयुते
टस्माद्बलाध्येलग्नेशे शत्रुनाशं रवौ शुभे || १८||
यद्भावेशयुतो वैरिनाथो यद्भावसंश्चितः |
षष्टस्थितो यद्भावेशस्ते भावाःशत्रुतां ययुः || १९||
सत्संबन्धयुते सप्तर्क्षे तदीशे बलान्विते |
पतिपुत्रवती षढ्वी भार्या सर्क्गुणैर्वृता || २०||
केन्द्रादन्यत्र रध्रेशे लग्नेशाद्दुर्बले सति |
नाधिर्न विघ्नो न क्लेशो नृणामायुश्चिरं भवेत् || २१||
धर्मे कुजे वा सूर्य वा दुःस्थे तन्नायके सति |
पापमध्यगते वाऽपि पितुर्मरणमादिशेत् || २२||
दिवा सूर्ये निशा मन्दे सुस्थे शुभनिरीक्षिते |
धर्मेशे बलसंयुक्ते चिरं जीवति तत्पिता || २३||
मन्दारयोः शीतरुचौ च सूर्ये त्रिकोणगे तज्जननीपितृभ्याम् |
त्यत्को भवेच्छक्रपुरोहितेन दृष्टे तनूजोऽस्ति सुखी चिरायुः || २४||
शनिर्भग्याधिपः स्याच्चेच्चरस्थो न शुभेक्षितः |
सूर्ये दुःस्थानगेऽप्यन्यपितरं ह्युपजीवति || २५||
धर्मे तदीशे वा मन्दयुक्ते दृष्टेऽपि वा चरे |
जातो दत्तो भवेन्नूनं व्ययेशे बलशालिनि || २६||
नभसि शुभखगे वा तत्पतौ केन्द्रकोणे
बलिनि निजगृहोच्चे कर्मगे लग्नपि वा |
महितपृथुयशाः स्याद्धर्मकर्मप्रदृत्तः
नृपतिसदृशभाग्यं दीर्घमायुश्च तस्य || २७||
उर्जस्वी जनवल्लभे दशमगे सूर्ये कुजे वा महत्
कार्यं साधयति प्रतापबहुलं  खेशश्च सुस्थो यदि |
सव्द्यापारव्तीं क्रियं वितनुते सौम्येषु सच्छलाधितां
कर्मस्थेष्वहिमन्दकेतुषु भवेद्दुषर्मकारी नरः || २८||
लाभेशे यद्भावनाथयुक्ते यद्भावगेऽपि वा |
भावं तदनुरूपस्य वस्तुनो लाभगैरपि || २९||
व्ययस्थितो यद्भावेशो व्ययेशो यत्र तिष्ठति |
तस्य भावस्यानुरूपवस्तुनो नाशमादिशेत् || ३०||
भावेशस्थितभंशकोणमपि वा भावं तु वा लग्नपो
लग्नेशस्थितभांशकोणमुदयं वाऽयाति भावाधिपः |
संयोगेऽपि विलोकनेऽपि च तयोस्तद्भावसिद्धिं तदा
ब्रूयात्कारकयोगतस्तनुपतेर्लग्नाच्च चन्द्रादपि || ३१||
यद्भावेशास्थतर्क्षांशत्रिकोणस्थे गुरुर्यदा |
गोचरे तस्य भावस्य फलप्राप्तिं विनिर्दिशेत् || ३२||
लग्नारिनाथयोगे तु लग्नेशाद्दुर्बले रिपौ |
तदा तद्वशगः शत्रुवीपरितमतोऽन्यथा || ३३||
यद्भावपस्य तनुपस्य भवत्यरित्वा-
त्तत्कालशत्रु वशतोऽरिमृतिस्थितो वा |
स्पर्धां तदा वदतु नेत च गोचरस्थ-
स्तद्वत्सुहृत्वमपि संयुतिमैत्रतश्च || ३४||
लग्नेशयद्भावपयोस्तु योगो
यदा तदा तत्फलसिद्धिकालः |
भावेशवीर्ये शुभमन्यथान्य-
ल्लग्नाच्च चन्द्रादपि चिन्तनीयम् || ३५||

Post a Comment

0 Comments