Header Ads Widget

फलदीपिका ।। सप्तविंशोऽध्यायः ।। प्रव्रज्या योग ।। Astro Classes, Silvassa.

।। फलदीपिका ।।
अथ सप्तविंशोऽध्यायः ।। प्रव्रज्या योग ।।
Astro Classes, Silvassa.


ग्रहैश्चतुर्भिः सहिते खनोथे
त्रिकोणगैः केन्द्रगतैस्तु मुक्तः |
लग्ने गृहान्ते सति सौम्यभागे
केन्द्रे गुरौ कोणगते च मुक्तः || १||
एकर्क्षसंस्थैश्चतुरादिकैस्तु
ग्रहैर्वदेत्तत्र बलान्वितेन |
प्रव्रज्यकां तत्र वदन्ति केचित्
कर्मेशतुल्यां सहिते खनाथे || २||
शशी दृगाणे रविजस्य संस्थितः
कुजार्किदृष्टः प्रकरोति तापसम् |
कुजांशके वा रविजेन दृष्तो
नवांशतुल्यां कथयन्ति तां पुनः || ३||
जन्माधिपः सूर्यसुतेन दृष्टः
शेषैरदृष्तः पुरुषस्य सूतौ |
आत्मीयदीक्षां कुरुते ह्यवश्यं
पूर्वोक्तमत्रापि विचारणीयम् || ४||
योगीशं दीक्षित वा कलयति तरणिस्तीर्थपान्थं हिमांशु-
र्दुर्मन्त्रज्ञं च बौधाश्र्यमवनीसुतो ज्ञो मतान्यप्रविष्टम् |
वेदान्तज्ञानिनं वा यतिवरममरेड्यो भृगुलिङ्गवृत्त
व्रात्य शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा || ५||
अतिशयबलयुक्तः शीतगुः शुक्लपक्षे
बलविरहितमेन प्रेक्षते लग्ननाथः |
यदि भवति तपस्वी दुःखितः शोकतप्तो
धनजनपरिहीनः कृच्छ्रलब्धान्नपानः || ६||
प्रकथितमुनियोगे राजयोगो यदि स्या-
दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् |
जनयति पृथिवीशं दीक्षितं साधुशीलं
प्रणतनृपहिरोभिः स्पृष्टपादाब्जयुग्मम् || ७||
चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवा
सुस्थाने बलिनस्त्रयो यदि तदा सन्याससिद्धिर्भवेत्
सब्द्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत्
प्रव्रज्यां महितां सताम्भिमतां चेदन्यथा निन्दिताम् || ८||

Post a Comment

0 Comments