Header Ads Widget

अथ श्रीअर्धनारीश्वर अष्टकम् ।। Ardhanarishvara Ashtakam.

अथ श्रीअर्धनारीश्वर अष्टकम् ।।

Ardhanarishvara Ashtakam.


अम्भोधरश्यामलकुन्तलायै, तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय, नमः शिवायै च नमः शिवाय ॥१॥

प्रदीप्तरत्नोज्वलकुण्डलायै, स्फुरन्महापन्नगभूषणाय ।
शिवप्रियायै च शिवप्रियाय, नमः शिवायै च नमः शिवाय ॥२॥

मन्दारमालाकलितालकायै, कपालमालाङ्कितकन्धरायै ।
दिव्याम्बरायै च दिगम्बराय, नमः शिवायै च नमः शिवाय ॥३॥

कस्तूरिकाकुङ्कुमलेपनायै, श्मशानभस्मात्तविलेपनाय ।
कृतस्मरायै विकृतस्मराय, नमः शिवायै च नमः शिवाय ॥४॥

पादारविन्दार्पितहंसकायै, पादाब्जराजत्फणिनूपुराय ।
कलामयायै विकलामयाय, नमः शिवायै च नमः शिवाय ॥५॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै, समस्तसंहारकताण्डवाय ।
समेक्षणायै विषमेक्षणाय, नमः शिवायै च नमः शिवाय ॥६॥

प्रफुल्लनीलोत्पललोचनायै, विकासपङ्केरुहलोचनाय ।
जगज्जनन्यै जगदेकपित्रे, नमः शिवायै च नमः शिवाय ॥७॥

अन्तर्बहिश्चोर्ध्वमधश्च मध्ये, पुरश्च पश्चाच्च विदिक्षु दिक्षु ।
सर्वं गतायै सकलं गताय, नमः शिवायै च नमः शिवाय ॥८॥

अर्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् ।
यः पठेच्छृणुयाद्वापि शिवलोके महीयते ॥९॥


==============================================


==============================================


==============================================




।।। नारायण नारायण ।।।

Post a Comment

0 Comments