Header Ads Widget

अथ श्री भगवत्सहस्रनामावलिः ।। Bhagavad Sahasra Namavali (Dramidopanishad tatparya ratnavali).

अथ श्री भगवत्सहस्रनामावलिः ।।


Bhagavad Sahasra Namavali (Dramidopanishad tatparya ratnavali).


।। श्रीः ।।
  
सेवनीयः परः ।।

ॐ निस्सीमोद्यद्गुणाय नमः ।
ॐ अमितरसाय नमः ।
ॐ अनन्तलीलास्पदाय नमः ।
ॐ स्वायत्ताशेषसत्ताय नमः ।
ॐ स्वायत्ताशेषस्थितये नमः ।
ॐ स्वायत्ताशेषयतनभिदावैभवाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ त्र्यक्षब्रह्मात्मने नमः ।
ॐ सदसदवगताय नमः ।
ॐ सर्वतत्त्वेषु पूर्णाय नमः । १०।

अखिलसमः ।।

ॐ स्वामिने नमः ।
ॐ सुस्थिराय नमः ।
ॐ निखिलनिर्पधिस्वात्मविग्रहाय नमः ।
ॐ तादृक्सर्वानुकूलाय नमः ।
ॐ च्यवनवदितरप्राप्यवैषम्यवते नमः ।
ॐ सर्वत्रापक्षपाताय नमः ।
ॐ शुभविभवाय नमः ।
ॐ मानसाद्यर्चाय नमः ।
ॐ सङ्कोचोन्मोचकाय नमः ।
ॐ जगदवनाय नमः । २०।

भक्तसुलभः ।।

ॐ स्वभक्तैर्बन्धार्हाय नमः ।
ॐ अधिकतरगुणानन्तदिव्यावताराय नमः ।
ॐ सर्वेष्वासक्तिमते नमः ।
ॐ नतसुगमाय नमः ।
ॐ स्वप्रबोधप्रदाय नमः ।
ॐ ख्याताभिख्यादिचिह्नाय नमः ।
ॐ स्वरुचिवितरणाय नमः ।
ॐ सर्वकालाश्रयाय नमः ।
ॐ शर्वादेः स्वाङ्गदात्रे नमः ।
ॐ प्रहितप्रदाय नमः । ३०।

निःशेषागस्सहः ।।

ॐ त्राणे बद्धध्वजाय नमः ।
ॐ शुभनयनाय नमः ।
ॐ स्वार्तलाभेऽर्थिने नमः ।
ॐ तिम्यन्मेघस्वभावाय नमः ।
ॐ जगदुपजननस्थापनातिप्रियाय नमः ।
ॐ कारुण्याप्तत्वयोगाय नमः ।
ॐ अनुगतमहिषीसंनिधये नमः ।
ॐ दीर्घसङ्गाय नमः ।
ॐ नानाबन्धाय नमः ।
ॐ स्वरक्षावहिततमाय नमः । ४०।

सुशीलः ।।

ॐ क्षुद्राह्वानाभिमुख्याय नमः ।
ॐ निजमहिमतिरस्कारकार्चाप्रियाय नमः ।
ॐ सर्वत्राप्यङ्घ्रिदात्रे नमः ।
ॐ सविधशयनाय नमः ।
ॐ स्वाङ्घ्रिसक्तैकरसाय नमः ।
ॐ गोपाद्याप्ताय नमः ।
ॐ अशेषेक्षणविषयाय नमः ।
ॐ भक्तवस्तुप्रसक्ताय नमः ।
ॐ श्लिष्यन्नाशव्यपोहाय नमः ।
ॐ तदहितशमनाय नमः । ५०।
ॐ अकीतैरर्च्याय नमः ।
ॐ अनियतविविधाभ्यर्चनाय नमः ।
ॐ अल्पतुष्टाय नमः ।
ॐ प्रह्वार्जेशाय नमः ।
ॐ स्वविषयनियतेष्वादरवते नमः ।
ॐ स्वादुभूम्ने नमः ।
ॐ पादासक्तप्रसन्नाय नमः ।
ॐ सकृदुपसदने मोक्षणाय नमः ।
ॐ धर्मसुस्थाय नमः ।
ॐ क्षिप्रक्ष्प्ताहिताय नमः । ६०।

सरसभजनः ।।

ॐ सच्चित्ताकर्षहेतये नमः ।
ॐ अघशमननिधये नमः ।
ॐ नित्यभोग्यामृताय नमः ।
ॐ त्यागे हेतूज्झिताय नमः ।
ॐ प्रबहदुपकृतये नमः ।
ॐ दुस्त्यजस्वानुभूतये नमः ।
ॐ त्यागाकाङ्क्षानिरोद्ध्रे नमः ।
ॐ श्रितहृदयपृथक्कारनित्याक्षमाय नमः ।
ॐ स्वात्मश्लिष्टाय नमः ।
ॐ गयच्छ्रमहरयशसे नमः । ७०।

प्रकृति ऋजुः ।।

ॐ सूरीणां स्वैरसेव्याय नमः ।
ॐ स्वयमवतरते नमः ।
ॐ क्षुद्रदिव्यैकनेत्राय नमः ।
ॐ गोपाद्यर्थघृताद्रये नमः ।
ॐ क्षिततनुरसिकाय नमः ।
ॐ वामनीभावदृश्याय नमः ।
ॐ सच्चित्तानन्यवृत्तये नमः ।
ॐ विभवसमतनवे नमः ।
ॐ स्वायुधारूढहस्ताय नमः ।
ॐ नीचोच्चग्राह्यपादाय नमः । ८०।

सात्म्यभोगप्रदः ।।

ॐ पर्यन्ते दृष्टाय नमः ।
ॐ अत्के दृष्टाय नमः ।
ॐ स्वविरहविधुराय नमः ।
ॐ डिम्भवत् पार्श्वलीनाय नमः ।
ॐ चित्ते क्लृप्तप्रवेशाय नमः ।
ॐ भुजशिखरगताय नमः ।
ॐ तालुसिंहासनस्थाय नमः ।
ॐ चक्षुर्मध्ये निविष्टाय नमः ।
ॐ अलिकतटे स्थिताय नमः ।
ॐ मस्तके तस्थुषे नमः । ९०।

अव्याजोदारः ।।

ॐ विष्वग्विक्रान्तिदृश्याय नमः ।
ॐ विगणनसुलभाय नमः ।
ॐ व्यक्तपूर्वोपकाराय नमः ।
ॐ स्वान्तस्यैकाग्र्यहेतवे नमः ।
ॐ स्वयमुदयजुषे नमः ।
ॐ बन्धमात्रोपयाताय नमः ।
ॐ चिन्तास्तुत्यादिलक्ष्याय नमः ।
ॐ नतजनसततश्लेषिणे नमः ।
ॐ दर्शितार्चाय नमः ।
ॐ स्मृत्यै चित्ते मिषते नमः । १००।

अतिभोग्यः असह्यक्षणविरहः ।।

ॐ निद्राविच्छेदकाय नमः ।
ॐ अरतिजनकाय नमः ।
ॐ अजस्रसङ्क्षोभकाय नमः ।
ॐ अन्वेष्टुं प्रेरकाय नमः ।
ॐ विलयवितरणाय नमः ।
ॐ कार्श्यदैन्यादिकृते नमः ।
ॐ चित्ताक्षेपकाय नमः ।
ॐ विसञ्ज्ञीकरणाय नमः ।
ॐ उपसंशोषकाय नमः ।
ॐ आवर्जकाय नमः । ११०।

उत्तुङ्ग ललितः ।।

ॐ पूर्णैश्वर्यावताराय नमः ।
ॐ भवदुरितहराय नमः ।
ॐ वामनत्वे  महते नमः ।
ॐ नाभीपद्मोत्थविश्वाय नमः ।
ॐ तदनुगुणदृशे नमः ।
ॐ कल्पतल्पीकृताब्धये नमः ।
ॐ न्यग्रोधपत्रे सुप्ताय नमः ।
ॐ जगदवनधिये नमः ।
ॐ रक्षणायावतीर्णाय नमः ।
ॐ रुद्रादिस्तुत्यलीलाय नमः । १२०।

सर्वास्वादः ।।

ॐ चित्रास्वादानुभूतये नमः ।
ॐ उपकृतिभिः नमः ।
ॐ दास्यसारस्यहेतवे नमः ।
ॐ स्वात्मन्यासार्हकृत्याय नमः ।
ॐ भजदमृतरसाय नमः ।
ॐ भक्तचित्तैकभोग्याय नमः ।
ॐ सर्वाक्षप्रीणनार्हाय नमः ।
ॐ सप्दि बहुफलस्नेहाय नमः ।
ॐ आस्वाद्यशीलाय नमः ।
ॐ सभ्यैस्साध्यैस्समेताय नमः । १३०।

व्यसनहरः ।।

ॐ प्रह्लादार्थे नृसिंहाय नमः ।
ॐ क्षपितविपदुषावल्लभाय नमः ।
ॐ क्षिप्तलङ्काय नमः ।
ॐ क्ष्वेलप्रत्यर्थिकेतवे नमः ।
ॐ श्रमहरतुलसीमालिने नमः ।
ॐ धैर्यहेतवे नमः ।
ॐ त्राणे दत्तावधानाय नमः ।
ॐ स्वरिपुहतिकृताश्वासनाय नमः ।
ॐ दीप्तहेतये नमः ।
ॐ सत्प्रेक्षारक्षित्रे नमः । १४०।

स्वाप्तिसम्प्रीतिमान् ।।

ॐ स्वप्राप्त्या सिद्धकान्तये नमः ।
ॐ सुघटितदयिताय नमः ।
ॐ विस्फुरत्तुङ्गमूर्तये नमः ।
ॐ प्रीत्युमेषातिभोग्याय नमः ।
ॐ नवघनसुरसाय नमः ।
ॐ नैकभूषादिदृश्याय नमः ।
ॐ प्रख्यातप्रीतिलीलाय नमः ।
ॐ दुरभिलपरसाय नमः ।
ॐ सद्गुणामोदहृद्याय नमः ।
ॐ विश्वव्यावृत्तिचित्राय नमः । १५०।

स्वविरहचकितः ।।

ॐ स्वास्वादख्यापकाय नमः ।
ॐ श्रितनियतदृशये नमः ।
ॐ नैकभोगप्रदाय नमः ।
ॐ त्यागानर्हप्रकाशाय नमः ।
ॐ स्थिरपरिचरणस्थापकाय नमः ।
ॐ पापभञ्जकाय नमः ।
ॐ दुस्साधार्थसाधकाय नमः ।
ॐ विरहभयकृते नमः ।
ॐ दुर्विभेदात्मयोगाय नमः ।
ॐ नित्यानेकोपकाराय नमः । १६०।

स्वजनहितः ।।

ॐ सर्वादये नमः ।
ॐ सर्वनाथाय नमः ।
ॐ त्रिभुवनजननीवल्लभाय नमः ।
ॐ स्वाश्रितार्थिने नमः ।
ॐ विष्वग्व्याप्त्यातिदीप्ताय नमः ।
ॐ विमतनिरसनाय नमः ।
ॐ स्वाङ्घ्रिसद्भक्तिदायिने नमः ।
ॐ विश्वाप्त्यै वामनाङ्गाय नमः ।
ॐ स्वविभवरसदाय नमः ।
ॐ स्वान्तनिर्वाहयोग्याय नमः । १७०।
ॐ स्वार्थेहाय नमः ।
ॐ बन्धमोक्त्रे नमः ।

मुक्तिरसदः ।।

ॐ प्राप्याकारोपपन्नाय नमः ।
ॐ जनिपरिहरणाय नमः ।
ॐ विश्वसृष्ट्यादिशक्तये नमः ।
ॐ निस्सीमानन्ददेशन्विताय नमः ।
ॐ रक्षणार्थावताराय नमः ।
ॐ सुप्रख्यातानुभवाय नमः ।
ॐ विविधविहरणाय नमः ।
ॐ व्याप्तिवैचित्र्यवते नमः । १८०।
ॐ भक्तैर्द्राग्दृश्याय नमः ।
ॐ अखिलफलकृते नमः ।

स्वकैङ्कर्योद्देश्यः ।।

ॐ श्रद्धेयस्वाङ्घ्रिओगाय नमः ।
ॐ शुभमतिकरदाय नमः ।
ॐ स्तोत्रसामर्थ्यहेतवे नमः ।
ॐ स्वार्थीकारोपकाराय नमः ।
ॐ स्मृतिरसशमितान्यादराय नमः ।
ॐ प्रीतिवश्याय नमः ।
ॐ प्राप्तौ कालाक्षमत्वप्रदाय नमः ।
ॐ अमृतरसध्यानाय नमः । १९०।
ॐ आत्मार्पणार्हाय नमः ।
ॐ वैमुख्याद्वारयते नमः ।

सुभसविधगिरिस्थः ।।

ॐ दीप्ताश्चर्यस्वभावाय नमः ।
ॐ मुखरितजलजाय नमः ।
ॐ वर्षुकाम्भोदवर्णाय नमः ।
ॐ शैलच्छत्राभिगुप्ताश्रिताय नमः ।
ॐ अतिविलसद्धेतये नमः ।
ॐ आपीतगव्याय नमः ।
ॐ संरम्भोत्क्षिप्तभूमये नमः ।
ॐ प्रणमदनुगुणाय नमः । २००।
ॐ पूतनाचेतनान्ताय नमः ।
ॐ श्रुतीनां पूर्वाचार्याय नमः ।

शुभसुभगतनुः विचित्रसौन्दर्ययुक्तः ।।

ॐ अङ्गैः सुश्लिष्टाकल्पाय नमः ।
ॐ अनुपमसुषमाय नमः ।
ॐ निस्सीमदीप्तये नमः ।
ॐ स्वान्तस्वादुस्वदेहाय नमः ।
ॐ सुखभजनपदाय नमः ।
ॐ महिष्या मण्डिताङ्गाय नमः ।
ॐ स्तोत्रातिक्रान्तकीर्तये नमः ।
ॐ मलिनिमरहितौज्ज्वलाय नमः । २१०।
ॐ इष्टौपवाह्याय नमः ।
ॐ वीताश्चर्यत्रिणेत्रप्रभृतिसुरनुतये नमः ।

तनुविहितसर्गादिसुभगः ।।

ॐ लोकस्रष्ट्रे नमः ।
ॐ लोकक्रान्त्रे नमः ।
ॐ हृतधरणिभराय नमः ।
ॐ अनन्यभोग्याङ्घ्रियुग्माय नमः ।
ॐ चित्तोद्यन्नीलरूपाय नमः ।
ॐ निरवधिरसदस्वाङ्घ्रये नमः ।
ॐ अध्यक्षमूर्तये नमः ।
ॐ नित्योपास्यस्वपादाय नमः । २२०। 
ॐ निखिलवसुमतीगोपनस्वाङ्घ्रिवृत्तये नमः ।
ॐ मूर्तिप्रतीत्या यमपरवशतां मुष्णते नमः ।

स्वेच्छासेव्याकृतिः ।।

ॐ स्थानोत्कर्षात् सुदीप्ताय नमः ।
ॐ श्रमहरवपुषे नमः ।
ॐ स्वाङ्गपर्याप्तभूषाय नमः ।
ॐ नीचयोगात् तेजिष्ठाय नमः ।
ॐ प्रणमितभुवनाय नमः ।
ॐ संनतानां पावनाय नमः ।
ॐ प्राप्त्यर्हस्थानाय नमः ।
ॐ अंहःप्रशमनविष्याय नमः । २३०।
ॐ बन्धविच्छेदपादाय नमः ।
ॐ शीघ्राभियानक्षमशुभवसतये नमः ।

निखिलतनुः ।।

ॐ भूतजुष्टाय नमः ।
ॐ भूतकार्यजुष्टाय नमः ।
ॐ शुभनिजवपुषे नमः ।
ॐ दीप्तिमत्पदार्थजुष्टाय नमः ।
ॐ पथ्यास्वादोपपन्नाय नमः ।
ॐ श्रुतिमुखसुभगाशेषशब्दप्रपञ्चाय नमः ।
ॐ नानाकार्पुमर्थजुष्टाय नमः ।
ॐ जगदधिपतिजुष्टाय नमः । २४०।
ॐ चेतनाचेतनौघजुष्टाय नमः ।
ॐ दोषैरदुष्टाय नमः ।

शुभतनुसुभगः ।।

ॐ ग्राहग्रस्तेभमोक्षाय नमः ।
ॐ सुररिपुदमनाय नमः ।
ॐ गोकुलत्राणकार्याय नमः ।
ॐ गोदार्थोक्षावमर्दाय नमः ।
ॐ सदहितमथनाय नमः ।
ॐ सिन्धुपर्यङ्कयुक्ताय नमः ।
ॐ क्षोणीभारव्यपोहाय नमः ।
ॐ क्षितिधरवसतये नमः । २५०।
ॐ निर्जराराध्याय नमः ।
ॐ विश्वारम्भाय नमः ।

हरितनुविभवः ।।

ॐ पद्माक्षाय नमः ।
ॐ पापहन्त्रे नमः ।
ॐ मणिरुचये नमः ।
ॐ अमराधीशचिन्त्याङ्घ्रिपद्माय नमः ।
ॐ तत्तादृक्कुन्तलश्रीसुघटितमकुटाय नमः ।
ॐ भावुकप्राप्यपादाय नमः ।
ॐ शुद्धास्वाद्यस्वभावाय नमः ।
ॐ यमभटमथनाय नमः । २६०।
ॐ भक्तधीवृत्तिभाव्याय नमः ।
ॐ नीचोच्चाभीष्टवृत्तये नमः ।

स्वबहुमतजनस्वामी ।।

ॐ स्फीतालोकातिभूम्ने नमः ।
ॐ पृथुबहुभुजाय नमः ।
ॐ दिव्यमाल्यास्त्रभाजे नमः ।
ॐ सद्वस्त्राकल्पाय नमः ।
ॐ त्रिदशरसकृते नमः ।
ॐ रक्षणौन्मुख्यवते नमः ।
ॐ मुक्तैरुत्तंसिताङ्घ्रये नमः ।
ॐ स्थिरधृतरमाय नमः । २७०।
ॐ श्यामकान्तये नमः ।
ॐ नित्यसत्कान्तये नमः ।

नित्यदृश्याङ्गः ।।

ॐ चित्ताकृष्टिप्रवीणाय नमः ।
ॐ अभिलपनसुखाय नमः ।
ॐ स्पर्शवाञ्छां दुहानाय नमः ।
ॐ दिदृक्षामातत्त्वानाय नमः ।
ॐ श्रुतिहितसहिताय नमः ।
ॐ आत्मनित्यादरार्हाय नमः ।
ॐ विश्लेषाक्रोश्मृते नमः ।
ॐ स्मरदरतिकराय नमः । २८०।
ॐ दत्तसायुज्यसङ्गाय नमः । 
ॐ बाललौल्यं कुर्वाणाय नमः ।

स्तुतिविषयतनुः ।।

ॐ रम्यस्थानादियुक्ताय नमः ।
ॐ अमितविभवाय नमः ।
ॐ सत्पथप्रापकाय नमः ।
ॐ सम्यक्सायुज्यदाताय नमः ।
ॐ अनघवितरणाय नमः ।
ॐ सर्वशेषित्वचिह्नाय नमः ।
ॐ प्रख्याताल्ह्यासहस्राय नमः ।
ॐ अवतरणरसिकाय नमः । २९०।
ॐ भुक्तिमुक्तिप्रदानाभिमुखाय नमः ।
ॐ त्रैलोक्योत्पादकाय नमः ।

अघशमनतनुः ।।

ॐ प्रादुर्भावानुभाववते नमः ।
ॐ पावनालङ्क्रियाय नमः ।
ॐ जैत्रव्यापारयुक्ताय नमः ।
ॐ अघटितघटनाय नमः ।
ॐ देवभावप्रसिद्धाय नमः ।
ॐ आश्च्र्यक्रीडनाय नमः ।
ॐ सरसिजनिलयानन्दनाय नमः । ३००।
ॐ छन्दवृत्तये नमः ।
ॐ ऐश्वर्यव्यक्तिमते नमः ।

सर्वभोग्याधिकः सुस्थिरैश्वर्यसीमा ।।

ॐ श्रीमते नारायणाय नमः ।
ॐ स्वाम्यनुगुणमकुटाय नमः ।
ॐ वीरदामाङ्कमौलये नमः ।
ॐ दुर्दान्तारातिहन्त्रे नमः ।
ॐ अद्भुतनियततनवे नमः ।
ॐ कल्पपाथोधितल्पाय नमः ।
ॐ विश्वाद्यज्योतिषे नमः ।
ॐ उर्वीधरफणिशयनाय नमः । ३१०।
ॐ वेदरूपस्वकेतवे नमः ।
ॐ निर्धूताशेषदोषाय नमः ।

सम्पन्नानेकभोग्यः ।।

ॐ शैत्यमहिततुलसीमालाय नमः ।
ॐ वटदलशयनाद्यर्हणीयापदानाय नमः ।
ॐ सौगन्ध्यमहिततुलसीमालाय नमः ।
ॐ रिचिरुचिरतुलसीमालाय नमः ।
ॐ पोषणमहिततुलसीमालाय नमः ।
ॐ आभिरूप्यमहिततुलसीमालाय नमः ।
ॐ सन्दर्भमहिततुलसीमालाय नमः ।
ॐ पुष्पसङ्ग्महतितुलसीमालाय नमः । ३२०।
ॐ शङ्खचक्राधीशयुक्ताय नमः ।
ॐ महिततुलसीमालाय नमः ।

आन्योन्यात्मत्वयोगवान् ।।

ॐ चेतोगन्धानुलेपाय नमः ।
ॐ स्तुतिवचनकृतस्रजे नमः ।
ॐ स्तुतिवचनकृतपटाय नमः ।
ॐ अञ्जल्युपातालङ्काराय नमः ।
ॐ प्राणवासिने नमः ।
ॐ चेतनेन कलितवरशिरोभूषणाय नमः ।
ॐ भक्त्या कलितकिरीटमुख्याय नमः ।
ॐ शीर्ष्णा सत्पाद्पीठाय नमः । ३३०।
ॐ स्वतनुसदनतामात्मरूपे वितन्वते नमः ।
ॐ अन्योन्यात्मत्वयुक्ताय नमः ।
ॐ प्रभवे नमः ।

निखिलतनुः ।।

ॐ (वियोगे) भूय्यद्यैर्वस्तुभिः भक्तान् व्यथयते नमः ।
ॐ सागराद्यैर्वस्तुभिः भक्तान् व्यथयते नमः ।
ॐ ज्वलनमुखैर्वस्तुभिः भक्ता व्यथयते नमः ।
ॐ शशिमुखैर्वस्तुभिः भक्तान् व्यथयते नमः ।
ॐ वत्सपूर्वैर्वस्तुभिः भक्तान् व्यथयते नमः ।
ॐ नृत्यद्भिः भक्तान् व्यथयते नमः ।
ॐ स्वैः लोकादिभिः भक्तान् व्यथयते नमः । ३४०।
ॐ पृथिवीक्षिद्भिः भक्तान् व्यथयते नमः ।
ॐ आत्मीयदासैः भक्तान् व्यथयते नमः ।
ॐ सौलभ्यैश्वर्यवर्गैः गुणगणैः भक्तान् व्यथयते नमः ।

स्वजनकृतकृतार्हीकृतिः ।।

ॐ आपन्नानन्यबन्धवे नमः ।
ॐ सरसिजनिलयावल्लभाय नमः ।
ॐ सान्द्रमोदाय नमः ।
ॐ भ्क्ताघध्वंसशीलाय नमः ।
ॐ तदुचितसमयाश्वासदानप्रवीणाय नमः ।
ॐ कर्पूरालेपशोभाय नमः ।
ॐ समाधिकरहिताय नमः । ३५०।
ॐ तोषकाय नमः ।
ॐ सर्वपूर्णाय नमः ।
ॐ कृष्णाय नमः ।

स्नेहवैद्यः ।।

ॐ इच्छासारथ्ययुक्ताय नमः ।
ॐ प्र्हरणनवयुते नमः ।
ॐ श्रीतुलस्याढ्यमौलये नमः ।
ॐ स्तुत्याङ्घ्रियुक्ताय नमः ।
ॐ नामसङ्कीर्तनप्रणयिभिषजे नमः ।
ॐ पादधूलिप्रणयिभिषजए नमः ।
ॐ स्वजनभजनतत्पादधूलिप्रणयिभिषजे नमः । ३६०।
ॐ स्वजननमःप्रणियिभिषजे नमः ।
ॐ स्वजनमूलस्वाङ्घ्रिस्तुतिप्रणयिभिषजे नमः ।
ॐ तदितरभजनत्यागपूर्वोपसत्तिप्रणयिभिषजे नमः ।

सद्गुणौघसंयुक्तः ।।

ॐ आपद्बन्धुत्वदीप्ताय नमः ।
ॐ निरवधिकमहानन्ददाय नमः ।
ॐ क्रान्तलोकाय नमः ।
ॐ देवतानां दुर्दर्शय नमः ।
ॐ अनुपधिपित्रे नमः ।
ॐ सर्वभूतान्तरस्थाय नमः ।
ॐ पूर्णज्ञानैकमूर्तये नमः । ३७०।
ॐ धृतशुभतुलसये नमः ।
ॐ चक्रनाथाय नमः ।
ॐ श्रुतीनां विश्रान्तिस्थानाय नमः ।

स्वजनपरिहृतोपेक्ष्यः ।।

ॐ आश्रितपरिहरणीयस्वोपेक्ष्यसौन्दर्याय नमः ।
ॐ आश्रितपरिहरणीयस्वोपेक्ष्यहृदयाय नमः ।
ॐ आश्रितपरिहरणीयस्वोपेक्ष्यपूर्णत्वाय नमः ।
ॐ आश्रितपरिहरणीयस्वोपेक्ष्यकान्तये नमः ।
ॐ आश्रितपरिहरणीयस्वानादृतज्ञानाय नमः ।
ॐ आश्रितपरिहरणीयस्वानादृतप्रकाशाय नमः ।
ॐ आश्रितपरिहरणीयस्वानादृतवलयाय नमः । ३८०।
ॐ आश्रितपरिहरणीयस्वोपेक्ष्यरशनाय नमः ।
ॐ आश्रितपरिहरणीयस्वानादृतवर्ष्मणे नमः ।
ॐ आश्रितपरिहरणीयस्वोपेक्षितात्मस्वरूपाय नमः ।

इष्टार्थरूपः ।।

ॐ कारुण्यादब्धिमाथिने नमः ।
ॐ तदुपरिशयिताय नमः ।
ॐ तत्समानाङ्गवर्णाय नमः ।
ॐ स्वदाने ख्यातौदार्याय नमः ।
ॐ रुचिरमणिरुचये नमः ।
ॐ वेषतोऽतीव भोग्याय नमः ।
ॐ आत्मत्वेनानुभाव्याय नमः । ३९०।
ॐ दुरधिगमपदाय नमः ।
ॐ बन्धमोक्षस्वतन्त्राय नमः ।
ॐ स्वान्यप्रेमोपरोधिने नमः ।

सर्वामरोच्चः ।।

ॐ कल्पान्तेऽपि स्थिताय नमः ।
ॐ सकलसुरगणस्रष्ट्रे नमः ।
ॐ जनानां रक्षाद्यापादकाय नमः ।
ॐ शिवविधिभरणाय नमः ।
ॐ सर्वदेवात्मने नमः ।
ॐ तत्तत्कर्मानुरूपफलवितरणाय नमः ।
ॐ वैनतेयध्वजाय नमः । ४००।
ॐ मार्कण्डेयावनाय नमः ।
ॐ अपरिच्छिन्नाय नमः ।
ॐ चिदचिद्वर्गेष्वप्यजहत्स्वभावाय नमः ।

श्रेयसोमेकहेतुः कारुण्याधीनवृत्तिः ।।

ॐ चक्रस्फायत्कराय नमः ।
ॐ स्वजनवशाय नमः ।
ॐ रक्षणोद्युक्ताय नमः ।
ॐ भव्याय नमः ।
ॐ स्वात्मदात्रे नमः ।
ॐ अमलतनवे नमः ।
ॐ श्रीगजेन्द्रावनाय नमः । ४१०।
ॐ नानाबन्धुत्वयुक्ताय नमः ।
ॐ विपत्सखाय नमः ।
ॐ व्याजमात्राभिलाषाय नमः ।

स्वभक्तैः जगदघशमनः ।।

ॐ पाथोधिप्रौढकान्तये नमः ।
ॐ सरसतुलसिकालङ्कृताय नमः ।
ॐ दात्रे नमः ।
ॐ वैकुण्ठाय नमः ।
ॐ चक्रप्रहरणाय नमः ।
ॐ वशिने नमः ।
ॐ देवतास्थापकाय नमः । ४२०।
ॐ स्वानामच्यावकाय नमः ।
ॐ सकलनियमनाय नमः ।
ॐ सर्वकर्मेज्याय नमः ।

स्वानां प्रेमजनकः ।।

ॐ ज्योतीरूपाङ्गकाय नमः ।
ॐ सरसिजनयनाय नमः ।
ॐ अनिष्टविध्वंसकाय नमः ।
ॐ मेघैघश्यामलाय नमः ।
ॐ श्रितसरसाय नमः ।
ॐ उत्कृष्टसैलभ्याय नमः ।
ॐ रक्षायां सावधानाय नमः । ४३०।
ॐ सुभगतनवे नमः ।
ॐ सोपकाराय नमः ।
ॐ अस्त्रवते नमः ।

जगदवनमहादीक्षितः ।।

ॐ आपद्बन्धुत्वकीर्तये नमः ।
ॐ यदुकुलजननाय नमः ।
ॐ धीरवीरत्वकीर्तये नमः ।
ॐ लोकविक्रान्ताय नमः ।
ॐ आश्रितदुरितहर्त्रे नमः ।
ॐ अद्भुतचेष्टिताय नमः ।
ॐ चक्राद्यस्त्रान्विताय नमः । ४४०।
ॐ कमलनयनतासम्पन्नाय नमः ।
ॐ वामनाय नमः ।
ॐ क्षीराब्धौ शेषशायिने नमः । 

स्वानामजस्रं स्मृतिविषयः ।।

ॐ शङ्खाद्यैर्मनोज्ञाय नमः ।
ॐ यज्ञसूत्रादिभूषिताय नमः ।
ॐ शार्ङ्गमुख्यैर्मनोज्ञाय नमः ।
ॐ तुलसीमालाल्ङ्कृताय नमः ।
ॐ बिम्बोष्ठाद्यैर्मनोज्ञाय नमः ।
ॐ सुनासाव्रततिमनोज्ञाय नमः ।
ॐ निरवधिज्योतिरूर्जस्विमूर्तये नमः । ४५०।
ॐ नेत्राब्जाद्यैर्विभूषिताय नमः । 
ॐ अशेषाभरणसुषमाय नमः ।
ॐ स्वैर्भक्तैर्मनोज्ञाय नमः ।

अहम्बुद्धिबोध्यः ।।

ॐ जगत्याः स्रष्ट्रे नमः ।
ॐ सकलविधकलावर्तकाय नमः ।
ॐ भूतान्तर्यामिणे नमः ।
ॐ कृत्युद्धरणपराय नमः ।
ॐ भूभरापाकर्त्रे नमः ।
ॐ शैलेन्द्रोद्धारणाय नमः ।
ॐ स्वजनहिताय नमः । ४६०।
ब्रह्मरुद्रेन्द्ररूपिणे नमः ।
ॐ दुष्कर्मोन्मूलनाय नमः ।
ॐ शुभाशुभफलप्रदाय नमः ।

दीनानां शरण्यः ।।

ॐ सर्पाधीशेशाय नमः ।
ॐ अरिदरभरणाय नमः ।
ॐ सानुकम्पाय नमः ।
ॐ सत्सहायाय नमः ।
ॐ अशेषान्तरनिलयाय नमः ।
ॐ भूसमुद्धर्त्रे नमः ।
ॐ सर्वेषां ताताय नमः । ४७०।
ॐ इतरजनदुराधर्षाय नमः ।
ॐ दीनशरण्याय नमः ।
ॐ देवतासार्वभौमाय नमः ।

स्वरसकृतनिजप्रेष्यतावाञ्छः ।।

ॐ निस्सौहित्यामृताय नमः ।
ॐ स्ववशजनये नमः ।
ॐ अनन्यभावप्रदाय नमः ।
ॐ मर्यादातीतकीर्तये नमः ।
ॐ नलिननयनाय नमः ।
ॐ सुराणां नायकाय नमः ।
ॐ सर्वश्रैष्ठ्यादियुक्तय नमः । ४८०।
ॐ अनितरगतिताद्यावहाय नमः ।
ॐ आसन्नाय नमः ।
ॐ स्वान् दास्ये स्वे स्थापयित्रे नमः ।

श्रितानामत्यासन्नः ।।

ॐ स्वामिने नमः ।
ॐ संश्रितानामुपकरणरसाय नमः ।
ॐ नित्यसेव्यपदाय नमः ।
ॐ स्वेष्टसंश्लेषकाय नमः ।
ॐ सर्वास्वादभूम्ने नमः ।
ॐ कपटवटवे नमः ।
ॐ दारुणापत्सखाय नमः । ४९०।
ॐ दिव्यस्थानोपपन्नाय नमः ।
ॐ भ्रमदरिभरणाय नमः ।
ॐ नारायणाय नमः ।

शक्तिप्रदः।।

ॐ प्रादुर्भावादिवृत्तैः स्वीवहृदयं शिथिलयते नमः ।
ॐ वृषगणदमनाय नमः ।
ॐ पूतनाशातनाय नमः ।
ॐ मोहार्थं बुद्धकृत्याय नमः ।
ॐ गिरिवरभजनस्वीकर्त्रे नमः ।
ॐ स्थानभेदवते नमः ।
ॐ तेजोध्वान्तादिभावाय नमः । ५००।
ॐ जलनिधिशयनाय नमः ।
ॐ त्रिपदीभिक्षुकाय नमः ।
ॐ पीयूषस्पर्श्नाय नमः ।

प्रपदनसुलभः देशिकद्वारगम्यः ।।

ॐ चक्रिणे नमः ।
ॐ विपदि सख्ये नमः ।
ॐ बिम्बदृश्याधराय नमः ।
ॐ अब्धिश्यामात्मकान्तये नमः ।
ॐ धृततुलसये नमः ।
ॐ निर्जराधीशाय नमः ।
ॐ रक्ताभास्याङ्घ्रये नमः । ५१०।
ॐ पृथुमकुटाय नमः ।
ॐ आश्चर्यचर्याविशेषाय नमः ।
ॐ लङ्काध्वंसिने नमः ।

स्वयमभिसरणकृत्  ।।

ॐ पूर्णाय नमः ।
ॐ गोपनारीजनसुलभाय नमः ।
ॐ अम्बुराशिविलोडनाय नमः ।
ॐ न्यग्रोधग्रेशयाय नमः ।
ॐ अरिसुभगाय नमः ।
ॐ श्रीमहीवल्लभाय नमः ।
ॐ निर्दोषोत्तुङ्गाय नमः । ५२०।
ॐ निरवधिकयशसे नमः ।
ॐ सद्वशीकारिदृशे नमः ।
ॐ मोक्षस्पर्शेच्छ्या स्वयमभिसरणाय नमः ।

अघटितघटकः ।।

ॐ सम्पद्दारिद्र्यभावाय नमः ।
ॐ असुखसुखकृते नमः ।
ॐ पत्तनग्रामभावाय नमः ।
ॐ कपटऋजवे नमः ।
ॐ सर्वलोकादिभावाय नमः ।
ॐ दिव्यादिव्याङ्गवते नमः ।
ॐ सुरदितिजगणस्निग्धशत्रुत्वकीर्तये नमः ।
ॐ मातापित्रादिवदुपकारकाय नमः ।
ॐ छायाच्छायादिभावाय नमः ।

चरित्र्यैः सर्वचित्ताकर्षकः ।।

ॐ रासक्रीडादिकृते नमः ।
ॐ विविधमुरलिकावादनाय नमः ।
ॐ मल्ल्भङ्गकृते नमः ।
ॐ गोपीबन्धार्हाय नमः ।
ॐ व्रजजननमुखैः चरितैः सर्वचित्ताकर्षकाय नमः ।
ॐ कंसदैत्यादिभञ्जकाय नमः ।
ॐ निहीनेषु प्रादुर्भावकृते नमः । ५४०।
ॐ असुरभुजवनच्छेदनाय नमः ।
ॐ वैदिकपुत्रानयनकृते नमः ।
ॐ महाभारतयुद्धप्रवर्तकाय नमः ।

विघटितविजनः ।।

ॐ शङ्खचक्रादिविशिष्टाय नमः ।
ॐ त्रिदशसुराय नमः ।
ॐ सिन्धुशायिने नमः ।
ॐ तद्वदुदाराय ॐ 
ॐ अरुणसरसिजाक्षाय नमः ।
ॐ दिव्याभिधानाय नमः ।
ॐ दिव्यचिह्नाय नमः । ५५०।
ॐ देवीसंश्लिष्टाय नमः ।
ॐ अतिसुलभाय नमः ।
ॐ स्वष्वतिस्निग्धाय नमः ।

स्वानिवितस्तेयदक्षः ।।

 ॐ पारम्यवते नमः ।
ॐ पञ्चायुध्विहरणाय नमः ।
ॐ वटदलशयनाय नमः ।
ॐ ब्रह्मणः स्रष्ट्रे नमः ।
ॐ देवानां (वेदानां) स्रष्ट्रे नमः ।
ॐ अतिसुभगाय नमः ।
ॐ अलङ्कृताय नमः । ५६०।
ॐ कुन्दभञ्जकाय नमः ।
ॐ रामादिप्रादुर्भावकृते नमः ।
ॐ सर्वान्तरनिलयाय नमः ।

धृत्यादेः आदिहेतुः ।।

ॐ परमाय नमः ।
ॐ भव्याय नमः ।
ॐ स्रगभिहितमुखैः सेव्याय नमः ।
ॐ श्रीशाय नमः ।
ॐ ऐश्वर्याय नमः ।
ॐ भूम्ने नमः ।
ॐ स्नेहिने नमः । ५७०।
ॐ आभिरूप्यवते नमः ।
ॐ श्रितपरवशाय नमः ।
ॐ सर्वलोकेशाय नमः ।

स्वीयायत्तस्वविभूतिद्वयः ।।

ॐ लोकस्रष्टृत्वशक्तिमते नमः ।
ॐ आयुधसुभगाय नमः ।
ॐ जिष्णुसारथये नमः ।
ॐ स्रग्भ्राड् देवेशाय नमः ।
ॐ गरुडरथाय नमः ।
ॐ स्वाश्रिते पक्षपातिने नमः ।
ॐ कान्तिमते नमः । ५८०।
ॐ साम्राज्ययोगिने नमः ।
ॐ अवतरणद्शास्पष्टपारम्याय नमः ।
ॐ श्रियः पतये नमः ।

अनर्हद्वियोगः ।।

ॐ सर्वात्मने नमः ।
ॐ जगतीक्रमणाय नमः ।
ॐ विष्टपानां संरक्षकाय नमः ।
ॐ शत्रुध्वंसकाय नमः ।
ॐ परत्वाद्यभिमतदशया पञ्चधवस्थिताय नमः ।
ॐ आश्चर्यभूताय नमः ।
ॐ अण्डकोट्याः निर्वाहकाय नमः । ५९०।
ॐ बुधदयिताय नमः ।
ॐ सर्वशीर्ष्णि अङ्घ्रिदात्रे नमः ।
ॐ मोक्षेच्छोत्पादकाय नमः ।

शरण्यः ।।

आपत्संरक्षकाय नमः ।
ॐ अर्युपकरणाय नमः ।
ॐ मेघसाम्यभूम्ने नमः ।
ॐ निरतिशयदीप्तिमते नमः ।
ॐ स्वानां विश्वासदात्रे नमः ।
ॐ सुरगणसमाश्रिताय नमः ।
ॐ दिव्यदेशोपसन्नाय नमः । ६००।
ॐ आभिरूप्येण व्यामोहजनकाय नमः ।
ॐ स्वजनविजनयोः नमः ।
ॐ सत्प्रपत्तव्याय नमः ।

अनिष्टचोरः शाठ्याशङ्कासहः ।।

ॐ निस्सङ्ख्याश्चर्ययोगाय नमः ।
ॐ अतिमधुराय नमः ।
ॐ जगत्कारणाय नमः ।
ॐ न्यग्रोधार्हत्वभूम्ने नमः ।
ॐ त्रिदशपतये नमः ।
ॐ वाङ्मनस्संनिहिताय नमः ।
ॐ पीयूषस्पर्शनाय नमः । ६१०।
ॐ अखिलपतये नमः ।
ॐ लोकसंरक्षकाय नमः ।
ॐ त्रितनवे नमः ।

प्रशमितजनतागर्हणः ।।

ॐ श्रीरङ्गे कृतसंनिधानाय नमः ।
ॐ निखिलजगदनुस्रष्ट्रे नमः ।
ॐ रक्षणार्थावताराय नमः ।
ॐ शुचये नमः ।
ॐ विध्वस्तानिष्ठाय नमः ।
ॐ उरगशयनाय नमः ।
ॐ पुंसु कर्मानुरूपं शर्माशर्मप्रदानाय नमः । ६२०।
ॐ उपक्रियातत्पराय नमः ।
ॐ श्रीभूमिदेवीनायकाय नमः ।
ॐ जलदतनवे नमः ।

स्वगोप्तृत्वं प्रकटयन् ।।

ॐ पद्माक्षत्वेन हृत्स्थाय नमः ।
ॐ परमखनिलयाय नमः ।
ॐ स्वोपकारिणे नमः ।
ॐ विगर्जच्छङ्खाय नमः ।
ॐ अनिष्टप्रहर्त्रे नमः ।
ॐ आदरविलसनकृते नमः ।
ॐ रक्षकाय नमः । ६३०।
ॐ अभ्धिदृश्याय नमः ।
ॐ आपत्संरक्षकाय नमः ।
ॐ श्रीमकरवरलसत्कुण्डलाय नमः ।

स्फुटजगदवनप्रक्रियः ।।

ॐ विष्टपविक्रान्तिकृते नमः ।
ॐ अमृतमथनकृते नमः ।
ॐ भूतधात्र्युद्धर्वे नमः ।
ॐ कल्पे लोकादनाय नमः ।
ॐ क्षितिभरहरणाय नमः ।
ॐ दैत्यराजप्रहर्त्रे नमः ।
ॐ लङ्कसङ्कोचकाय नमः । ६४०।
ॐ असुरभुजवनच्छेत्रे नमः ।
ॐ लोकस्रष्ट्रे नमः ।
ॐ गोवर्धनाद्रिधर्त्रे नमः ।

सर्वाश्रयं स्वं स्नेहं प्रकटयन् ।।

ॐ साकेते स्थिरचरजनुषां मुक्तिदायकाय नमः ।
ॐ सर्वशो रक्षकाय नमः ।
ॐ चैद्ये सायुज्यदात्रे नमः ।
ॐ जगदुदयकृते नमः ।
ॐ भूमिदेव्युद्धर्त्रे नमः ।
ॐ याञ्चार्थं वामनाय नमः ।
ॐ शिवभजकमुनेर्मोक्षदात्रे नमः । ६५०।
ॐ विरोधिनिवर्तकाय नमः ।
ॐ पाण्डवसारथये नमः ।
ॐ मोक्षदायकाय नमः ।

स्वीयाक्रन्दापहारी ।।

ॐ नाभीपद्मोज्ज्वलाय नमः ।
ॐ विधिशिवभजनीयाङ्घ्र्ये नमः ।
ॐ गवां त्रात्रे नमः ।
ॐ सर्वभूतान्तरनियमनाय नमः ।
ॐ संश्रिते भव्याय नमः ।
ॐ लक्ष्मीवक्षसे नमः ।
ॐ ब्रह्माद्यापद्विमोचकाय नमः । ६६०।
ॐ असुरनिरसनाय नमः ।
ॐ त्रातरक्षोनुजाय नमः ।
ॐ पाण्डवरक्षकाय नमः ।        

स्मृतिविशदतनुः ।।

ॐ पद्माकृतिदृशे नमः ।
ॐ अमरतरुलतानासिकाय नमः ।
ॐ लतिकाखण्डसदृश अधराय नमः ।
ॐ इक्षु कोदण्डसदृशभ्रुवे नमः ।
ॐ धवलविद्युदाकार स्मिताय नमः ।
ॐ मकरलसत्कुण्डलाय नमः ।
ॐ अर्धेन्दुवद्भासमानफालाय नमः । ६७०।
ॐ अमलमुखशशिने नमः ।
ॐ प्रलयान्धलारवदतिनीलस्निग्धकोमलसूक्ष्मकेशाय नमः ।
ॐ किरीटिने नमः ।

विस्मयार्हद्विभूतिः ।।

ॐ पञ्चभूतात्मने नमः ।
ॐ चन्द्रार्यमादिविभवाय नमः ।
ॐ सकलयुगगतवस्त्वात्मने नमः ।
ॐ चेतनाचेतनात्मने नमः ।
ॐ नानालोकनियतिविभवाय नमः ।
ॐ स्मरणतदितरोत्पादकाय नमः ।
ॐ माननादिक्ऱिते नमः । ६८०।
ॐ दुर्ज्ञेयाय नमः । 
ॐ स्वभाजां बहुशुभकरणाय नमः ।
ॐ वेदसंवेद्याय नमः ।

स्तुतिकृत् ।।

ॐ स्वामिने नमः ।
ॐ आश्चर्याय नमः ।
ॐ करुणया दत्तवाग्जृम्भणाय नमः ।
ॐ उज्जीवापादकाय नमः ।
ॐ अघटितघटनाशक्तये नमः ।
ॐ वैकुण्ठयोगाय नमः ।
ॐ शुद्धस्वान्ताय नमः । ६९०।
ॐ चक्रायुधाय नमः ।
ॐ जलधिसुतावल्लभाय नमः ।
ॐ पित्रे नमः ।

स्तुतिकृदघहरः ।।

ॐ वैकुण्ठे नित्ययोगाय नमः ।
ॐ श्रितविवशाय नमः ।
ॐ गरुडारूढाय नमः ।
ॐ अनन्तकीत्युज्ज्वलाय नमः ।
ॐ शेषशायिने नमः ।
ॐ रुक्मिण्यभिमताय नमः ।
ॐ सुरजिद्बाणदोःखण्डनाय नमः । ७००।
ॐ ग्राहग्रस्तेभरक्षकाय नमः ।
ॐ अभिरुचितविषये संनिहिताय नमः ।
ॐ शुचये नमः ।

भक्तच्छन्दानुवर्ती दर्शनेच्छोः सुदृश्यः ।।

ॐ श्याद्यैः पत्न्यादिमते नमः ।
ॐ रघुयदुकुलोद्भवाय नमः ।
ॐ स्वाश्रितेच्छाधीनेहाय नमः ।
ॐ स्वाश्रितेच्छाधीनविग्रहाय नमः ।
ॐ सकलचिदचितामन्तरात्मत्वभूम्ने नमः ।
ॐ स्वामिने नमः ।
ॐ आनन्दरूपाय नमः । ७१०।
ॐ स्वाश्रितावेध्यखिलगुणाय नमः ।
ॐ ज्ञानिनामप्यदुःखस्थानेच्छापादकाय नमः ।
ॐ सहस्रभुजनयनचरणनाम्ने नमः ।

निस्सङ्गसुलभः ।।

ॐ तार्क्ष्योद्यद्वाहनाय नमः ।
ॐ शुभनयनाय नमः ।
ॐ नीलमेघाकृतये नमः ।
ॐ आश्चर्योच्चेष्टिताय नमः ।
ॐ योगिभिर्निर्जरैश्च दुरवधराय नमः ।
ॐ स्वेषु व्यालुग्धाय नमः ।
ॐ प्रतिहतिरहिताय नमः । ७२०।
ॐ दुर्जनादृश्याय नमः ।
ॐ लज्जापहारकाय नमः ।
ॐ निस्सङ्गजनसुलभतमाय नमः ।

विश्लेषभोग्यः ।।

ॐ श्रीभूमीनायकाय नमः ।
ॐ अरिसुकराय नमः ।
ॐ स्वविश्लेपैकाकिने नमः ।
ॐ कल्पसिन्धौ शिशवे नमः ।
ॐ श्रीस्थाने संनिहिताय नमः ।
ॐ सुरहितकरणाय नमः ।
ॐ श्रीनिवासाय नमः । ७३०।
ॐ विष्टपानां विक्रान्तिकृते नमः ।
ॐ विधिदुरधिगमाया नमः ।
ॐ स्वेषु सौलभ्यभूम्ने नमः ।

श्रितविहितसमग्रस्वभूमा ।।

ॐ दुर्द्दन्तेभीन्द्रभञ्जकाय नमः ।
ॐ शुभनिलयाय नमः ।
ॐ इतरेषां साय्याय नमः ।
ॐ स्वायत्तय नमः ।
ॐ सर्वदिव्यस्थानसंनिहिताय नमः ।
ॐ स्वेनापि दुरवबोधस्वमहिम्ने नमः ।
ॐ श्रितहृदि सततं भाताय नमः । ७४०।
ॐ देवतद्द्वेषिसङ्गे मित्रामित्रत्वयोगाय नमः ।
ॐ जगदुदयकृते नमः ।
ॐ देवतात्मने नमः ।

जीवापेक्षाप्रतीक्षः ।।

ॐ आश्चर्येहान्विताय नमः ।
ॐ शुभमकुटाय नमः ।
ॐ स्वाम्यवते नमः ।
ॐ अब्धौ शायिने नमः ।
ॐ जीमूतश्यामलाय नमः ।
ॐ श्रितसुलभाय नमः ।
ॐ पद्मसूर्योपमाङ्गाय नमः । ७५०।
ॐ पाण्डुसूनोः सारथये नमः ।
ॐ अवनिभरहर्त्रे नमः ।
ॐ अन्तरात्मत्वयोगाय नमः ।

स्वपदवितरणे सज्जः ।।

ॐ श्रीतुलस्या भाताय नमः ।
ॐ श्रितहृदि शयिताय नमः ।
ॐ श्रीद्धवक्षस्काय नमः ।
ॐ आश्चर्योपक्रियाय नमः ।
ॐ सुरगणसेविताय नमः ।
ॐ वैरिविध्वंसकाय नमः ।
ॐ गोविन्दाय नमः । ७६०।
ॐ अशेषाभिमतविषयतोऽभीष्टसच्चित्तकाय नमः ।
ॐ सर्वाकाराद्भुताय नमः ।
ॐ हरिवामनशब्दवाच्याय नमः ।

स्वजनहृदि रतः ।।

ॐ भव्याय नमः ।
ॐ रक्षकाय नमः ।
ॐ त्रिजगदधिककारुण्याय नमः ।
ॐ गोपाय नमः ।
ॐ नीलाश्माद्रिप्रभाय नमः ।
ॐ स्वजनकृतनिजात्मप्रदानप्रभवे नमः ।
ॐ मन्दस्मित्या हृदि स्थिताय नमः । ७७०।
ॐ सुकृतिषु अतर्कितानुग्रहाय नमः ।
ॐ प्रलयकाले स्वोदरधृतसमस्तजगते नमः ।
ॐ स्वानां चित्तानपेताय नमः ।

स्वदास्यं प्रकटयन् ।।

ॐ प्रसाधन्येन हृदि भाताय नमः ।
ॐ विभुतयालं नमः ।
ॐ पराय नमः ।
ॐ मधुराय नमः ।
ॐ देहदेह्यादिषु गताय नमः ।
ॐ स्वस्वरूपप्रकाशकाय नमः ।
ॐ निस्सङ्ग्प्राप्याय नमः । ७८०। ।
ॐ अन्त्यस्सृत्याप्याय नमः ।
ॐ स्वपरमपुरुषैक्यभ्रमध्वंसकाय नमः ।
ॐ ज्ञानाज्ञानप्रदाय नमः ।

स्वदास्यनिष्ठां प्रकटयन् ।।

ॐ स्वमूर्तिविलक्षणाय नमः ।
ॐ मकुटमुखमहाभूषणैर्भूषिताय नमः ।
ॐ स्वार्हानेकायुधाय नमः ।
ॐ प्रलयसखाय नमः ।
ॐ उज्जीवने कर्षकाय नमः ।
ॐ सम्पन्निरवधिकाय नमः । ७९०।
ॐ अनन्तशयनाय नमः ।
ॐ नीरस्मानवर्णाय नमः ।
ॐ आश्चर्यचेष्टाय नमः ।

स्वदास्यविधिं प्रकटयन् ।।

ॐ स्वकीयेषु व्यामुग्धाय नमः ।
ॐ अमलघनरुचे नमः ।
ॐ वामनाय नमः ।
ॐ आपद्बन्धवे नमः ।
ॐ आश्चर्यभावाय नमः ।
ॐ अहितनिरसनाय नमः ।
ॐ लोकसृष्ट्यादिशक्ताय नमः । ८००।
ॐ आब्धौ शायिने नमः ।
ॐ श्रितदुरितहृते नमः ।
ॐ अतसीपुष्पकान्त्याकर्षकाय नमः ।

निरुपधिकसुहृत् हितः - एकबन्धुः ।।

ॐ आपद्बन्धुत्वकीर्तये नमः ।
ॐ दृढमतिजनकाय नमः ।
ॐ दैत्यनाशाय भूमौ ज्ञानाय नमः ।
ॐ अजत्वेषि जानाय नमः ।
ॐ उत्तरस्यां पुरि मधुरपदालङ्कृत्जां जाताय नमः ।
ॐ भूमौ जाताय नमः ।
ॐ बन्धवे नमः । ८१०।
डयाब्धये नमः ।
ॐ एकसहायाय नमः ।
ॐ पुमर्थभूतपादाय नमः ।

सुचिरकृतदयः ।।

ॐ लक्ष्मीसम्बन्धभूम्ने नमः ।
ॐ मितधरणये नमः ।
ॐ पद्मनेत्रत्वयोगाय नमः ।
ॐ स्थित्याद्यैः स्वैः चरित्रैः श्रितहृदपहरणाय नमः ।
ॐ श्रीगजेन्द्रावनाय नमः ।
ॐ तार्क्ष्यासावधिरुह्यारिगणनिरासकाय नमः ।
ॐ देवदुष्प्रापाय नमः । ८२०।
ॐ दीप्तिमते नमः ।
ॐ क्रूरचेष्टितदिव्यायुधाय नमः ।
ॐ दुष्कर्मोन्मूलनाय नमः ।

शीलरत्नाकरः ।।

ॐ नैकश्रीनामवते नमः ।
ॐ जगदुदयसुसंस्थापकाय नमः ।
ॐ हरये नमः ।
ॐ मोक्षस्य दात्रे नमः ।
ॐ हेयप्रतिभटाय नमः ।
ॐ घटकश्रेणिसम्पत्तिमते नमः ।
ॐ प्रह्लादाह्लादकाय नमः । ८३०।
ॐ वृषगिरिकटके संनिधानाकृते नमः ।
ॐ शेषशायिने नमः ।
ॐ शर्वादेः स्वाङ्गदात्रे नमः ।

स्वस्वामित्वादिबन्धात् जगदवनकृत् ।।

ॐ लक्ष्मीवक्षस्काय नमः ।
ॐ स्वजनसुलभाय नमः ।
ॐ पर्वतोद्धारकाय नमः ।
ॐ सुरादेः दुर्ज्ञेयाय नमः ।
ॐ अखिलपतये नमः ।
ॐ नकिनां वृद्धाय नमः ।
ॐ स्वेषां हृद्वासिने नमः । ८४०।
ॐ स्वजनवशाय नमः ।
ॐ स्वजनासक्तिभूम्ने नमः ।
ॐ स्वस्वामित्वादिबन्धात् रक्षकाय नमः ।

स्वगुणगरिमसंस्मारकः ।।

ॐ प्राणाय नमः ।
ॐ अद्भुताय नमः ।
ॐ सुविदिताय नमः ।
ॐ भव्यत्वयोगाय नमः ।
ॐ लक्ष्मीवक्षस्काय नमः ।
ॐ रघुकुलजननाय नमः ।
ॐ नीलरत्नाभमूर्तये नमः ।
ॐ कृष्णाय नमः ।
ॐ अब्जदृशे नमः ।
ॐ परमपतये नमः ।

विस्मर्तुमशक्यः ।।

ॐ आश्चर्येहान्विताय नमः ।
ॐ अखिलपतये नमः ।
ॐ अन्तरात्मने नमः ।
ॐ अशक्ये शक्तत्वभूम्ने नमः ।
ॐ जलदतनवे नमः ।
ॐ भव्यताकर्षकाय नमः ।
ॐ औदार्यादेर्विशिष्टाय नमः । ८६०।
ॐ नीलजलपूर्णवलाहकसदृशाय नमः ।
ॐ दोश्चतुष्कवते नमः ।
ॐ भवभृतां रक्षणे तीव्रसङ्गाय नमः ।

घटकमुखविस्रम्भणीयः ।।

ॐ श्रीतुलस्या रम्याय नमः ।
ॐ श्रितजनसहिताय नमः ।
ॐ पद्माक्षाय नमः ।
ॐ स्वामिने नमः ।
ॐ सत्परञ्ज्योतिरिति कथिताय नमः ।
ॐ श्रीधराय नमः ।
ॐ अतिकीर्तये नमः । ८७०।
ॐ पुष्पश्यामलाय नमः ।
ॐ रथचरणमुखस्वायुधाय नमः ।
ॐ आसन्नाय नमः ।

सुमज्जानिः ।।

ॐ स्मासन्नभावाय नमः ।
ॐ वल्लीमध्यसुमज्जानये नमः ।
ॐ जगति सुविदितश्रीवचोवाच्याय नमः ।
ॐ नीलावल्लभाय नमः ।
ॐ भूमाद्यैश्वर्ययुक्ताय नमः ।
ॐ अवतरणदशासहवराय नमः ।
ॐ दुरितहराय नमः । ८८०।
ॐ सुबोधप्रदाय नमः ।
ॐ ब्रह्मादिदुर्दर्शाय नमः ।
ॐ सन्धातृसुमज्जानये नमः ।

सिद्ध्युन्मुखसमयः ।।

ॐ पद्माक्षत्वप्रसिद्धाय नमः ।
ॐ जगदवनाय नमः ।
ॐ भव्याय नमः ।
ॐ सारग्राहिणे नमः ।
ॐ वेणुनादैः हृषितजनाय नमः ।
ॐ अजादेः स्वाङ्गदानाय नमः ।
ॐ श्यामाय नमः । ८९०।
ॐ गव्यचोराय नमः ।
ॐ सरसस्मेरचेष्टत्वभूम्ने नमः ।
ॐ दुस्सहविरहाय नमः ।

वेलाप्रतीक्षः ।।

ॐ सर्वश्रेष्ठाय नमः ।
ॐ स्वकीयैरपि जगदवनाय नमः ।
ॐ अण्डषण्डाधिपतये नमः ।
ॐ नीलावल्लभाय नमः ।
ॐ अमृतवितरणाय नमः ।
ॐ भक्तसुस्निग्धाय नमः ।
ॐ दासानां सत्याय नमः । ९००।
ॐ अतिसुजनाय नमः ।
ॐ जगत्कारणाय नमः ।
ॐ श्रीमते नमः ।

सत्पदव्यां सहायः सद्गतिः ।।

ॐ दैत्यानां नाशकाय नमः ।
ॐ विधृततुलसिकामौलये नमः ।
ॐ जयिने नमः ।
ॐ सर्पाधीशेशयाय नमः ।
ॐ निरवधिकपरञ्ज्योतिषे नमः ।
ॐ उल्लास्यभावाय नमः ।
ॐ लोकस्रष्टृत्वयोगाय नमः । ९१०।
ॐ  दशरथसुताय नमः ।
ॐ श्रान्तिहारिणे नमः ।
ॐ कामरूपाय नमः ।

आध्वक्लेशापहर्ता ।।

ॐ श्रीकेशवाय नमः ।
ॐ अद्भुतचरिताय नमः ।
ॐ खगाधीशकेतवे नमः ।
ॐ आसन्नाय नमः ।
ॐ पत्यै नमः ।
ॐ अमरपरिषदामादिभूताय नमः ।
ॐ सृष्टिमुख्यव्यापाराय नमः । ९२०।
ॐ भुजगशायिने नमः ।
ॐ वामनाय नमः ।
ॐ माधवाय नमः ।

अस्थानस्नेहशङ्कास्पदरसः ।।

ॐ अम्भोजाक्षत्वकीर्तिमते नमः ।
ॐ यदुकुलजननाय नमः ।
ॐ प्रियोद्यद्वचनपराय नमः ।
ॐ चक्रराजायुधाय नमः ।
ॐ श्रीनीलाश्मप्रभाय नमः । ९३०।
ॐ अतिसुभगाय नमः ।
ॐ गोपनिर्वाहकाय नमः ।
ॐ गोपनिर्वाहकाय नमः ।

भजद्भिः सुगमः ।।

ॐ श्रीमद्दामोदराय नमः ।
ॐ अमरपरिषदामप्यगम्यत्वभूम्ने नमः ।
ॐ चक्राधीशायुधाय नमः ।
ॐ वटदलशयनाय नमः ।
ॐ नागराजेशयाय नमः ।
ॐ मोक्षस्पर्शोन्मुखाय नमः ।
ॐ परमपुरुषाय नमः । ९४०।
ॐ दुष्प्रापाय नमः ।
ॐ उपायोपदेष्ट्रे नमः ।
ॐ माधवत्वादियिगाय नमः ।

बहुविधभजनप्रक्रियः ।।

ॐ नाम्नां सङ्कीर्तनेन भुविधभजनप्रक्रियाय नमः ।
ॐ स्वपरिबृढतया भावनातो भजनीयाय नमः ।
ॐ सृष्ट्यादिबहुविधरक्षणाय नमः ।
ॐ अनुवेलं संस्मृत्या भजनीयाय नमः ।
ॐ पुष्पदानैः भजनीयाय नमः ।
ॐ वेङ्कटाचलवासिने नमः ।
ॐ अध्ययनभजनीयाय नमः । ९५०।
ॐ निर्वचनभजनीयाय नमः ।
ॐ स्तोत्रनृत्यादिकृत्यैः वर्णाश्रमधर्मैश्च 
    बहुविधभजनप्रक्रियाय नमः ।
ॐ दीर्घबन्धवे नमः ।

स्वपदवितरणे तीव्रोद्यमः ।।

ॐ चक्रिणे नमः ।
ॐ केशवाय नमः ।
ॐ श्र्रिशनारायणाय नमः ।
ॐ पाण्डवानां स्नेहिने नमः ।
ॐ अभिमततुलसीपूजनीयाय नमः ।
ॐ अम्भोजाक्षाय नमः ।
ॐ गोविन्दाय नमः । ९६०।
ॐ सुयशसे नमः ।
ॐ श्रीपतये नमः ।
ॐ अलभ्यलाभप्रदाय नमः ।

स्वजनतनुकृतात्यादरः ।।

ॐ हृदयगततया अत्याश्चर्यस्वभावाय नमः ।
ॐ स्वस्तुतौ प्रेरकाय नमः ।
ॐ स्वामिने नमः ।
ॐ सर्वभूतान्तरमिलयाय नमः ।
ॐ वस्तुतौ कर्त्रे नमः ।
ॐ आपद्बन्धये नमः ।
ॐ ब्रह्मरुद्रादिसर्वदेवस्तुताय नमः । ९७०।
ॐ बहुविधसविधस्थानवते नमः ।
ॐ कालादीनामेककारणाय नमः ।
ॐ मायानिवर्तकाय नमः ।

स्वयमनुपधितः तुष्टः ।।

ॐ लक्ष्मीकान्ताय नमः ।
ॐ विपदि सख्ये नमः ।
ॐ दिव्यदेशस्थिताय नमः ।
ॐ मोक्षोद्युक्ताय नमः ।
ॐ मोक्षार्थं कृतशपथाय नमः ।
ॐ सर्वतः संनिहिताय नमः ।
ॐ दृष्ट्यन्तःसंनिवासाय नमः । ९८०।
ॐ अतिवितरणाय नमः ।
ॐ स्वस्वभावप्रकाशकाय नमः ।
ॐ स्वामिने नमः ।

सुखार्चिर्मुखसरणिमुखः ।।

ॐ स्वामिने नमः ।
ॐ श्रीशनारायण इति यशस्विने नमः ।
ॐ विष्टपानां विक्रान्त्रे नमः ।
ॐ श्रीश इति यशस्विने नमः ।
ॐ चक्रवते नमः ।
ॐ जलनिधिशयनाय नमः ।
ॐ गोविन्दाय नमः । ९९०।
ॐ वैकुण्ठस्वामिने नमः ।  

मोक्षदो मुक्तभोग्यः ।।

ॐ ब्रह्मेशान्तःप्रविष्टाय नमः ।
ॐ जलनिधिसुतया संनिरोद्धव्याय नमः ।
ॐ दिव्यश्रीविग्रहाय नमः ।
ॐ अखिलतनवे नमः ।
ॐ अतृप्तपीयूषभावाय नमः ।
ॐ पद्माबन्धवे नमः ।
ॐ भूम्युद्धरणकर्त्रे नमः ।
ॐ पुण्यपापेशित्रे नमः ।
ॐ मुक्तेर्दात्रे नमः ।।१०००।।
ॐ अनुभाव्याय नमः ।।

Post a Comment

0 Comments