Header Ads Widget

अथ श्री सर्व सङ्कष्ट मोचनम् हनुमत् स्तोत्रम् ।। Sankashta Mochana Hanumat Stotram2.

अथ श्री सर्व सङ्कष्ट मोचनम् हनुमत् स्तोत्रम् ।।

काशीपीठाधीश्वर जगद्गुरुशङ्कराचार्यस्वामि
श्रीमहेश्वरानन्दसरस्वतीविरचितं स्तोत्रम्।।

सिन्दूरपूररुचिरो बलवीर्यसिन्धुः
     बुद्धिप्रभावनिधिरद्भुतवैभवश्रीः ।
दीनार्तिदावदहनो वरदो वरेण्यः
     सङ्कष्टमोचनविभुस्तनुतां शुभं नः ॥ १॥

सोत्साहलङ्घितमहार्णवपौरुषश्रीः
     लङ्कापुरीप्रदहनप्रथितप्रभावः ।
घोराहवप्रमथितारिचयप्रवीरः
     प्राभञ्जनिर्जयति मर्कटसार्वभौमः ॥ २॥

द्रोणाचलानयनवर्णितभव्यभूतिः
     श्रीरामलक्ष्मणसहायकचक्रवर्ती ।
काशीस्थदक्षिणविराजितसौधमल्लः
     श्रीमारुतिर्विजयते भगवान् महेशः ॥ ३॥

नूनं स्मृतोऽपि ददते भजतां कपीन्द्रः
     सम्पूजितो दिशति वाञ्छित-सिद्धिवृद्धिम् ।
संमोदकप्रिय उपैति परं प्रहर्षं
     रामायणश्रवणतः पठतां शरण्यः ॥ ४॥


श्रीभारतप्रवरयुद्धरथोद्धतश्रीः
     पार्थैककेतनकरालविशालमूर्तिः ।
उच्चैर्घनाघनघटाविकटाट्टहासः
     श्रीकृष्णपक्षभरणः शरणं ममाऽस्तु ॥ ५॥

जङ्घालजङ्घ उपमातिविदूरवेगो
     मुष्टिप्रहारपरिमूर्च्छितराक्षसेन्द्रः ।
श्रीरामकीर्तितपराक्रमणोद्धवश्रीः
     प्राकम्पनिर्विभुरुदञ्चतु भूतये नः ॥ ६॥

सीतार्तिदारणपटुः प्रबलः प्रतापी
     श्रीराघवेन्द्रपरिरम्भवरप्रसादः ।
वर्णीश्वरः सविधिशिक्षितकालनेमिः
     पञ्चाननोऽपनयतां विपदोऽधिदेशम् ॥ ७॥

उद्यद्भानुसहस्रसन्निभतनुः पीताम्बरालङ्कृतः
प्रोज्ज्वालानलदीप्यमाननयनो निष्पिष्टरक्षोगणः ।
संवर्तोद्यतवारिदोद्धतरवःप्रोच्चैर्गदाविभ्रमः
श्रीमान् मारुतनंदनः प्रतिदिनं ध्येयो विपद्भञ्जनः ॥ ८॥


रक्षःपिशाचभयनाशनमामयाधि
     प्रोच्चैर्ज्वरापहरणं हननं रिपूणाम् ।
सम्पत्तिपुत्रकरणं विजयप्रदानं
     सङ्कष्टमोचनविभोः स्तवनं नराणाम् ॥ ९॥

दारिद्र्यदुःखदहनं शमनं विवादे
     कल्याणसाधनममङ्गलवारणाय ।
दाम्पत्यदीर्घसुखसर्वमनोरथाप्तिं
     श्रीमारुतेः स्तवशतावृतिरातनोति ॥ १०॥

स्तोत्रं य एतदनुवासरमाप्तकामः
     श्रीमारुतिं समनुचिन्त्य पठेत् सुधीरः ।
तस्मै प्रसादसुमुखो वरवानरेन्द्रः 
     साक्षात्कृतो भवति शाश्वतिकः सहायः ॥ ११॥

सङ्कष्टमोचनस्तोत्रं शङ्कराचार्यभिक्षुणा ।
महेश्वरेण रचितं मारुतेश्चरणेऽर्पितम् ॥ १२॥


। इति काशीपीठाधीश्वर जगद्गुरुशङ्कराचार्यस्वामि
श्रीमहेश्वरानन्दसरस्वतीविरचितं श्रीसङ्कष्टमोचनस्तोत्रं सम्पूर्णम् 

==============================================

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

==============================================

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

==============================================

संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

WhatsAap+ Viber+Tango & Call: +91 - 8690 522 111.
E-Mail :: astroclassess@gmail.com

Website :: www.astroclasses.com
www.astroclassess.blogspot.com
www.facebook.com/astroclassess


।। नारायण नारायण ।।

Post a Comment

0 Comments