Header Ads Widget

अथ श्रीरघुनाथ अष्टकम् ।। Shri Raghunatha Ashtakam.

हैल्लो फ्रेण्ड्सzzz,


अथ श्रीरघुनाथ अष्टकम् ।।

श्री गणेशाय नमः ।।

शुनासीराधीशैरवनितलज्ञप्तीडितगुणं
प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् ।
सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥

निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे
पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् ।
विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं
ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ २॥

गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं
ससौमित्रिं त्यक्‍त्वेप्सितमपि सुराणां नृपसुखम् ।
विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं
ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ३॥

विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं
गतं पम्पातीरे पवनसुतसम्मेलनसुखम् ।
गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं
ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ४॥

प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं
जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम् ।
विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं
ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ५॥

विमानं चारुह्याऽनुजजनकजासेवितपद
मयोध्यायां गत्वा नृपपदमवाप्तारमजरम् ।
सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तमनसं
ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ६॥

प्रजां संस्थातारं विहितनिजधर्मे श्रुतिपथं
सदाचारं वेदोदितमपि च कर्तारमखिलम् ।
नृषु प्रेमोद्रेकं निखिलमनुजानां हितकरं
सतीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ७॥

तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यन्ति
ज्ञात्वा जगति खलु गन्तारमजनम् ॥

अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं
ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ८॥

रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम् ।
पठतां पापराशिघ्नं भुक्‍तिमुक्‍तिप्रदायकम् ॥ ९॥

।। इति पण्डित श्रीशिवदत्तमिश्रशास्त्रि विरचितं श्रीरघुनाथाष्टकं सम्पूर्णम् ।।

==============================================

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

==============================================

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

==============================================

संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

WhatsAap+ Viber+Tango & Call: +91 - 8690 522 111.
E-Mail :: astroclassess@gmail.com

Website :: www.astroclasses.com
www.astroclassess.blogspot.com
www.facebook.com/astroclassess

।। नारायण नारायण ।।

Post a Comment

0 Comments