Header Ads Widget

तन्वादि द्वादश भावस्थित बुधफलमाह ।। Astro Classes, Silvassa.

अथ तन्वादि द्वादश भावस्थित बुधफलमाह ।।
Astro Classes, Silvassa.

तत्रादौ लग्ने बुधफलम् ।।


विद्यावान् विवाहादिबहुश्रुतवान् || १||
अनेकदेशे सार्वभौमः मन्त्रवादी पिशाछोच्चाटन
समर्थः मृदुभाषी विद्वान् क्षमीदयावान् || २||
सप्तविंशतिवर्षे तीर्थयात्रायोगः बहुलाभवान् बहुविद्यावान् || ३||
पापयुते पापक्षेत्रे देहेरोगः पित्तपांडुरोगः || ४||
शुभयुते शुभक्षेत्रे देहारोग्यम् || ५||
स्वर्णकान्तिदेहः ज्योतिषशस्त्र पठितह् अंगहीनः
सज्जनद्वेषी नेत्ररोगी || ६||
सप्तदशवर्षे भ्रातृणामन्योन्यकलहः || ७||
वंचकः || ८||
उच्चस्वक्षेत्रे भ्रातृसौख्यम् || ९||
श्रेष्ठलोकं गमिष्यति || १०||
पापयुते पापदृष्टयुते नीचर्क्षे पापलोकं गमिष्यति || ११||
शय्यासुखवर्जितः क्षुद्रदेवतोपासकः || १२||
पापमंदादियुते वामनेत्रे हानिः षष्ठेशयुते
नीचेशयुते वा न दोषः || १३||
अपात्रव्ययवान् || १४||
पापहा || १५||
शुभयुते निश्चयेन धनधान्यादिमान् धार्मिक बुद्धिः || १६||
अस्त्रवित् गणितशास्त्रजः सौख्यवान् तर्कशास्त्रवित्दृढ गात्रः || १७||

लग्नाद् द्वितीये बुधफलम् ।।

पुत्र समृद्धिः वाचालकः वेदशस्त्रविचक्षणः
संकल्पसिद्वया संयुतः धनी गुणाढ्यः सद्गुणी
पंचदशवर्शे बहुविद्यावान् || १८||
बहुलाभप्रदः || १९||
पापयुते पापक्षेत्रे अरिनीचगे विद्याविहीनः || २०||
क्रूरत्ववान् पवनव्याधिः || २१||
शुभयुतेवीक्षणाद्धनी || २२||
विद्यावान् || २३||
गुरुणा युते वीक्षिते वा गणितशास्त्राधिकारेन सम्पन्नः || २४||

लग्नात् तृतीये बुधफलम् ।।

भ्रातृमान् बहुसौख्यवान् || २५||
पंचदशवर्षे क्षेत्रपुत्रयुतः || २६||
धनलाभवान् || २७||
सद्गुणशाली || २८||
भावाधिपे बलयुते दीर्घयुः धैर्यवान् || २९||
भावाधिपे भ्रातृपीडा भीतिमान् || ३०||
बलयुते भ्राता दीर्घयुः || ३१||

लग्नाच्चतुर्थे बुधफलम् ।।

हस्तचापल्यवान् धैर्यवान् विशालाक्षः पितृमतृसौख्ययुतः || ३२||
जानवान् सुखी || ३३||
शोडशवर्षे द्रव्यापहाररूपेण अनेक वाहनवान् || ३४||
भावाधिपे बलयुते आन्दोलिका प्राप्तिः || ३५||
राहुकेतुशनियुते वाहनारिष्टवान् || ३६||
क्षेत्रसुखवर्जितः बन्धुकुलद्वेषी कपटी || ३७||

लग्नात्पंचमे बुधफलम् ।।

मातुलगण्डःमात्रदिसौख्यंपुत्र विघ्नमेधवी
मधुरभाषी बुद्धिमान् || ३८||
भावाधिपे पापयुते बलहीने पुत्रनाशः || ३९||
अपुत्र दत्तपुत्रप्राप्तिः पापकर्मी मंत्रवादी || ४०||

लग्नात्षष्ठे बुधफलम् ।।

राजपूज्यः विद्याविघ्नः दाम्भिकः विवादशूरः || ४१||
त्रिंशद्वर्षे बहुराजस्नेहो भवति || ४२||
पत्रादिलोखकः || ४३||
कुजर्क्षे नीलकुष्ठादिरोगी || ४४||
शनिराहुयुते केतुयुते वातशूलादिरोगी जातिशत्रुकलहः || ४५||
भावाधिपे बलयुते जातिप्रबलः || ४६||
अरिनीचर्क्षे जातिक्षयः || ४७||

लग्नात्सप्तमे बुधफलम् ।।

मातृसौख्यम् अश्वाद्यारूढो धर्मजः उदारमतिः || ४८||
दिगन्तविश्रुतिकीर्तिः राजपूज्यः || ४९||
तत्रशुभयुते चतुर्विंशतिवर्षे आन्दोलिकाप्राप्तिः || ५०||
कलत्रमतिः || ५१||
अभक्ष्यभक्षणः || ५२||
भावेशे बलयुते एकदारवान् || ५३||
दारेशे दुर्बले पापे पापर्क्षे कुजादियुते कलत्रनाशः || ५४||
स्त्रीजातके पतिनाशः कलत्रं कुष्ठरोगी || ५५||
अरूपवत् || ५६||

लग्नादष्टमे बुधफलम् ।।

आयुकारकः बहुक्षेत्रेवान् || ५७||
सप्तपुत्रवान् || ५८||
पंचविंशतिवर्षे अनेकप्रतिष्ठासिद्धिः || ५९||
कीर्तिप्रसिद्धिः || ६०||
भावाधिपे बलयुतेपूर्नयुः || ६१||
अरिनीचपापयुते अल्पायुः || ६२||
अथवा उच्चस्वक्षेत्रे वा शुभयुते पूर्णयुः || ६३||

लग्नान्नवमे बुधफलम् ।।

बहुप्रजासिद्धिः || ६४||
वेदशास्त्रविशारदः संगीत पाठकः दाक्षिण्यवान्
धार्मिकः प्रतापवान् बहुलाभवान् पितृ दीर्घयुः || ६५||
तपोध्यानशीलवान् || ६६||

लग्नाद्दशमे बुधफलम् ।।

सत्कर्मसिद्धिः भैर्यवान् बहुलकीर्तिमान् बहुचितवान् || ६७||
अष्टाविंशतिवर्षे नेत्ररोगवान् || ६८||
उच्चस्वक्षेत्रे गुरुयुतेऽग्निष्टोमादि बहुकर्मवान् || ६९||
अरिपापयुते मूढकर्मविघ्नवान् दुष्कृतिः अनाचारः || ७०||

लग्नादेकादशे बुधफलम् ।।

बहुमंगलप्रदः || ७१||
अनेक प्रकारेण धनवान् || ७२||
एकोनविंशतिवर्षदुपरि क्षेत्रपुत्रधनवान् दयावान् || ७३||
पापर्क्षे पापयुते हीनमूलेन धनलोपः || ७४||
उच्चस्वक्षेत्रे शुभमूलेन धनवान् || ७५||

लग्नाद्द्वादशे बुधफलम् ।।

जानवान् || ७६||
वितरणशाली || ७७||
पापयुते चंचलंचित्तः || ७८||
नृपज्नद्वेषी || ७९||
शुभयुतेन धर्ममूलेन धनव्ययः || ८०||
विद्याहीनः || ८१||

Post a Comment

0 Comments