Header Ads Widget

तन्वादिद्वादशभावस्थितरविफलमाह ।। Astro Classes, Silvassa.

।। भृगु सूत्रम् ।।
अथ तन्वादिद्वादशभावस्थितरविफलमाह ।।
Astro Classes, Silvassa.

तत्रादौ लग्ने रविफलम् ।।


आरोग्यं भवति || १||
पित्तप्रकृतिः नेत्ररोगी || २||
मेधावी सदाचारी वा || ३||
उष्नोदरवान् || ४||
मूर्खः पुत्रहीनः || ५||
तिक्ष्नबुद्धिः || ६||
अल्पभाषी प्रवासशीलः सुखी || ७||
स्वोच्चे कीर्तिमान् || ८||
बलिनिरीक्षिते विद्वान् || ९||
नीचे प्रतापवान् || १०||
जानद्वेषी दरिद्रः अन्धकः || ११||
शुभदृष्टे न दोषः || १२||
सिंहे स्वांशे नाथह् || १३||
कुलीरे जानवान् || १४||
रोगी बुदबुदाक्षह् || १५||
मकरो हृद्रोगी || १६||
मीने स्त्रीजनसेवी || १७||
कन्यायां रवौ कन्याप्रजः दारहीनः कृतघ्नः || १८||
क्षेत्री शुभयुक्तह् आरोग्यवान् || १९||
पापयुते शत्रुनीछक्षेत्रे तृतीये वर्षे ज्वरपीडा || २०||
शुभदृष्टे न दोषः || २१||

लग्नाद् द्वितीये रविफलम् ।।

मुखरोगी || २२||
पंछविंशतिवर्षे राजदन्डेन द्रव्यच्छेदः || २३||
उच्चे स्वक्षेत्रे वा दोषः || २४||
पापयुते नेत्ररोगी || २५||
स्वल्पविद्वान् रोगी || २६||
शुभवीक्षिते धनवान् दोषादीन् व्यपहरती || २७||
नेत्रसौख्यम् || २८||
स्वोच्चे स्वक्षेत्रे वा बहुधनवान् || २९||
बुधयुते पवनवाक् || ३०||
धनाधिपः स्वोच्चे वाग्मी || ३१||
शास्त्रजः जानवान् नेत्रसौख्यम् राजयोगश्छ || ३२||

लग्नातृतीये रविफलम् ।।

बुद्धिमान् अनुजरहितः ज्येष्ठनाशः  || ३३||
पंचमे वर्षे चतुरश्टद्वादशवर्षे वा किंचित्पीदा || ३४||
पापयुते क्रूरकर्ता || ३५||
द्विभ्रातृमान् पराक्रमी || ३६||
युद्धे शूरश्च || ३७||
कीर्तिमान् निजधनभोगी || ३८||
शुभयुते सोदरवृद्दिः || ३९||
भावाधिपे बलयुते भ्रातृदीर्घयुः || ४०||
पापयुते पापेक्षणवंशान्नाशः || ४१||
शुभवीक्षनवशाद्धनवान् भोगी सुखी च || ४२||

लग्नाच्चतुर्थे रविफलम् ।।

हीनांगः अहंकारी जनविरोधी उष्नदेही मनः पीडावान् || ४३||
द्वात्रिंशद्वर्षे सर्वकर्मनुकूलवान् || ४४||
बहुप्रतिष्ठासिद्धिः सत्तापदवीजानसौर्यसम्पन्नः || ४५||
धनधान्यहीनः || ४६||
भावाधिपे बलयुते स्वक्षेत्रेत्रिकोणे केन्द्रे लक्ष्नापेक्ष्या
आन्दोलिकाप्राप्तिः || ४७||
पापयुते पापविक्षनवशाद् दुष्टस्थाने दुर्वहनसिद्धिः || ४८||
क्षेत्रेहीनः || ४९||
परगृह एव वासः || ५०||

लग्नात्पंचमे रविफलम् ।।

निर्धनः स्थूलदेही सप्तमे वर्षे पित्रारिष्टवान् || ५१||
मेधावी अल्पुत्रः बुद्धिमान् || ५२||
भावाधिपे बलयुते पुत्रसिद्धिः || ५३||
राहुकेतुयुते सर्पशापात् सुतक्षयः || ५४||
कुजयुते शत्रुयुते मूलात् || ५५||
शुभदृष्टयुते न दोषः || ५६||
सूर्यशरभादिषु भक्तः || ५७||
बलयुते पुत्रसमृद्धिः || ५८||

लग्नात्षष्ठे रविफलम् ।।

अल्पजातिः || ५९||
शत्रुवृद्धिः धनधान्यसमृद्धिः || ६०||
विंशतिवर्षे नेत्र वैपरीत्यं भवति || ६१||
शुभदृष्टयुते न दोषः || ६२||
अहिकानन पारकृन्मन्त्रसेवी || ६३||
कीर्तिमान् शोकरोगी महोष्नदेही || ६४||
शुभयुते भावाधिपे देहारोग्यम् || ६५||
जातिशत्रुबाहुल्यम् || ६६||
भावाधिपे दुर्बले शत्रुनाशः || ६७||
पितृदुर्बलः || ६८||

लग्नत्सप्तमे रविफलम् ।।

विवाहविलम्बनं स्त्रीद्वेषी परदाररतह् दारद्वयवान् || ६९||
पञ्चविंशतिवर्षे देशान्तर प्रवेशः || ७०||
अभक्ष्य भक्षनः विनोदशीलः दारद्वेषी || ७१||
नाशान्तबुद्धिः || ७२||
स्वर्क्षेबलवति एकदारवान् || ७३||
शत्रुनीचवीक्षिते पापयुते वीक्षनैर्बहुदारवान् || ७४||

लग्नादष्टमे रविफलम् ।।

अल्पपुत्रः नेत्ररोगी || ७५||
दशमे वर्षे शिरोव्रनी || ७६||
शुभयतुदृष्टे तत्परिहारह् || ७७||
अल्पधनवान् गोमहिष्यादिनाशः || ७८||
देहे रोगः || ७९||
ख्यातिमान् || ८०||
भावाधिपे बलयुते इष्टक्षेत्रवान् || ८१||
स्वोच्चेस्वक्षेत्रे दीर्घयुः || ८२||

लग्नान्नवमे रविफलम् ।।

सूर्यादिदेवताभक्तः || ८३||
धार्मिकः अल्पभाग्यः पितृद्वेषी सुतदारवान् स्वोच्चे
स्वक्षेत्रे तस्य पिता दीर्घयु || ८४||
बहुधनवान् तपोध्यानशीलः गुरूदेवताभक्तः || ८५||
निचारिपापक्षेत्रे पपैर्युते दृष्टे वा पितृनाशः || ८६||
शुभयुते वीक्षनवशाद्वा पिता दिर्घयुः || ८७||

लग्नाद्दशमे रविफलम् ।।

अष्टादशवर्षे विद्यादिकारेन प्रसिद्धो भवति
द्रव्यार्जनसमर्थश्च || ८८||
दृष्टत्रितः राजप्रियः सत्कर्मरतः राजशूरः ख्यातिमान् || ८९||
स्वोच्चे स्वक्षेत्रे बल परः || ९०||
कीर्तिप्रसिद्धिः || ९१||
तटाकक्षेत्रगोपुरादिब्राह्मण प्रतिष्टासिद्धिः || ९२||
पापक्षेत्रे पापयुते पापदृश्टवशात् कर्मविघ्नकरः || ९३||
दुष्टकृतिः || ९४||
अनाचारः दुष्कर्मकृत्पापी || ९५||

लग्नादेकादशे रविफलम् ।।

बहुधान्यवान् पंचविंशतिवर्षे वाहनसिद्धिः || ९६||
धनवाग्जालद्रव्यार्जनसमर्थः प्रभुज्वरितबृत्यजनस्नेहः || ९७||
पापयुते बहुधान्यव्ययः || ९८||
वाहनहीनः || ९९||
स्वक्षेत्रे स्वोच्चे अधिकप्राबल्यम् || १००||
वाहनेशयुते बहुक्षेत्रे वित्ताधिकारः || १०१||
वाहनयोगेन न बहुभाग्यवान् || १०२||

लग्नाद्द्वादशे रविफलम् ।।

षट्त्रिंशद्वर्षे गुल्मरोगी || १०३||
अपात्रव्ययकारी पतितः धनहानिः || १०४||
गोहत्यादोषकृत् परदेशवासी || १०५||
भावाधिपे बलयुते वा देवतासिद्धिः || १०६||
शय्याखट् वंगादिसौख्यम् || १०७||
पापयुते अपात्रव्ययकारी सुखश्य्याहीनः || १०८||
षष्तेशेयुते कुष्ठरोगयुतः शुभदृष्टयुते निवृत्तिः || १०९||
पापी रोगवृद्धिमान् || ११०||

Post a Comment

0 Comments