Header Ads Widget

अथ कीलकम् स्तोत्रम् ।। Keelak Stotram.

हैल्लो फ्रेण्ड्सzzz,


अथ कीलकम् स्तोत्रम् ।।

ॐ अस्य श्री कीलकमन्त्रस्य शिव ऋषिः । अनुष्टुप् छन्दः । महासरस्वती देवता । श्री जगदम्बा प्रीत्यर्थं सप्तशती पाठाङ्गत्वेन जपे विनियोगः ।।

ॐ नमश्चण्डिकायै ।।
मार्कण्डेय उवाच ।।

ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ।
श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥१॥

सर्वमेत द्विजानीयान्मन्त्राणाभि कीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥२॥

सिद्ध्यन्त्युच्चाटनादीनि वस्तुनि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रमात्रेण सिध्यति ॥३॥

न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते ।
विना जाप्येन सिद्ध्येत् सर्वमुच्चाटनादिकम् ॥४॥

समग्राण्यपि सिध्यन्ति लोकशंकामिमां हरः ।
कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ॥५॥

स्तोत्रंवै चण्डिकायास्तु तच्च गुप्तं चकार सः ।
समाप्तिर्न च पुण्यस्य तां यथावन्निमन्त्रणां ॥६॥

सोपिऽक्षेममवाप्नोति सर्वमेव न संशयः ।
कृष्णायां वा चतुर्दश्याम् अष्टम्यां वा समाहितः ॥७॥

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम् ॥८॥

यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम् ।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ॥९॥

न चैवाप्यटतस्यतस्य भयं क्वापीह न जायते ।
नाप मृत्यु वशं याति मृतो मोक्षमाप्नुयात् ॥१०॥

ज्ञात्वाप्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पन्नं इदं प्रारभ्यते बुधैः ॥११॥

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभं ॥१२॥

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ॥१३॥

ऐश्वर्यं यत्प्रसादेन सौभाग्यमारोग्यसम्पदः ।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनै ॥१४॥

॥ इति श्री भगवती कीलक स्तोत्रं समाप्तम् ॥


Thank's & Regards. / Astro Classes, Silvassa.

Office - Shop No.-04, Near Gayatri Mandir, Mandir Faliya, Amli, Silvassa. 396 230

Post a Comment

0 Comments