Header Ads Widget

अथ श्रीमहालक्ष्मी लहरी ।। Shri Lakshmi Lahari.

हैल्लो फ्रेण्ड्सzzz,

मित्रों, माता श्रीमहालक्ष्मी के इस परम पावन "लहरी स्तोत्र" का परायण मनुष्य की समस्त इच्छाओं की पूर्ति तत्काल कर देता है । इस स्तोत्र को किसी भी शुक्रवार को सायंकालीन बेला में एक बाजोट (लकड़ी के चौकी).......

के ऊपर चावल से अष्टदल कमल बनायें । उसपर श्रीयन्त्र की स्थापना करके यथा उपचार पूजन करे उसके उपरान्त इस स्तोत्र का परायण सिर्फ एक बार करें और ऐसा सिर्फ आठ शुक्रवार को करें ।।

अथ श्रीमहालक्ष्मी लहरी ।। Shri Lakshmi Lahari.

श्रीगणेशाय नमः ।
समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचाम्-
अपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः ।
ह्रिया हीनं दीनं भृशमुदरलीनं करुणया 
हरिश्यामा सा मामवतु जडसामाजिकमपि ॥१॥

समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः 
करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि ।
यमासाद्योन्माद्यद्‍द्विपनियुतगण्डस्थलगलन्-
मदक्लिन्नद्वारो भवति सुखसारो नरपतिः ॥२॥

उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः
पतन्ति स्वर्बालाः स्मरशरपराधीनमनसः ।
सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखास्-
तवायं दृक्पातो यदुपरि कृपातो विलसति ॥३॥

समीपे सङ्गीतस्वरमधुरभङ्गी मृगदृशां 
विदूरे दानान्धद्विरदकलभोद्दामनिनदः ।
बहिर्द्वारे तेषां भवति हयहेषाकलकलो 
दृगेषा ते येषामुपरि कमले देवि सदया ॥४॥

अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो 
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः ।
उदञ्चत्पीयूषाम्बुधिलहरिलीलामनुहरन्-
नपाङ्गस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥५॥

नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलसत्-
कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः ।
लसत्फुल्लाम्भोजम्रदिमहरणः कोऽपि चरणश्-
चिरं चेतश्चारी मम भवतु वारीशदुहितुः ॥६॥

प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां 
नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटुः ।
नृणामन्तर्ध्वान्तं निबिडमपहर्तुं तव किल 
प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥७॥

प्रभातप्रोन्मीलत्कमलवनसञ्चारसमये 
शिखाः किञ्जल्कानां विदधति रुजं यत्र मृदुलाः ।
तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुणं 
कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥८॥

स्मितज्योत्स्नामज्जद्‍द्विजमणिमयूखामृतझरैर्-
निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः ।
अमन्दं स्यन्दन्ते वदनकमलादत्य कृतिनो 
विविक्‍तौ वै कल्पाः सततमविकल्पा नवगिरः ॥९॥

शरौ मायाबीजौ हिमकरकलाक्रान्तशिरसौ 
विधायोर्ध्वं बिन्दुं स्फुरितमिति बीजं जलधिजे ।
जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटाम्-
अदभ्राम्यद्‍भृङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥१०॥

स्मरो नामं नामं त्रिजगदभिरामं तव पदं 
प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु ।
यया पातं पातं पदकमलयोः पर्वतचरो 
हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥११॥

हरन्तो निःशङ्कं हिमकरकलानां रुचिरतां 
किरन्तः स्वच्छन्दं किरणमयपीयूषनिकरम् ।
विलुम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा 
ममान्तःसन्तापं तव चरणशोणाम्बुजनखाः ॥१२॥

मिषान्माणिक्यानां विगलितनिमेषं निमिषताम्-
अमन्दं सौन्दर्य तव चरणयोरम्बुधिसुते ।
पदालङ्काराणां जयति कलनिक्वाणनपटुर्-
उदञ्‍चन्‍नुद्दामः स्तुतिवचनलीलाकलकलः ॥१३॥

मणिज्योत्स्नाजालैर्निजतनुरुचां मांसलतया 
जटालं ते जङ्घायुगलमघभङ्गाय भवतु ।
भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां 
दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥१४॥

हरद्गर्वं सर्वं करिपतिकराणां मृदुतया 
भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम् ।
लसज्जानुज्योत्स्ना तरणिपरिणद्धं जलधिजे 
तवोरुद्वन्द्वं नः श्लथयतु भवोरुज्वरभयम् ॥१५॥

कलक्वाणां काञ्चीं मणिगणजटालामधिवहन्-
वसानः कौसुम्भं वसनमसनं कौस्तुभरुचाम् ।
मुनिव्रातैः प्रातः शुचिवचनजातैरतिनुतं 
नितम्बस्ते बिम्बं हसति नवमम्बाम्बरमणेः ॥१६॥

जगन्मिथ्याभूतं मम निगदतां वेदवचसाम्-
अभिप्रायो नाद्यावधि हृदयमध्याविशदयम् ।
इदानीं विश्वेषां जनकमुदरं ते विमृशतो
विसन्देहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥१७॥

अनल्पैर्वादीन्द्रैरगणितमहायुक्‍तिनिवहैर्-
निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि ।
असत्ख्यातिव्याख्याधिकचतुरिमाख्यातमहिमा 
वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥१८॥

निदानं शृङ्गांरप्रकरमकरन्दस्य कमले 
महानेवालम्बो हरिनयनरोलम्बवरयोः ।
निधानं शोभानां निधनमनुतापस्य जगतो 
जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥१९॥

गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां 
विगाढुं ते नाभीविमलसरसीं गौर्मम मनाक् ।
पदं यावन्नयस्यत्यहह विनिमग्नैव सहसा 
नहि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥२०॥

कुचौ ते दुग्धाम्भोनिधिकुलशिखामण्डनमणे 
हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् ।
त्रिलोकीलावण्याहरणनवलीलानिपुणयोर्-
ययोर्दत्ते भूयः करमखिलनाथो मधुरिपुः ॥२१॥

हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां 
दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम् ।
तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले 
मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु ॥२२॥

अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते 
दयापीयूषाम्भोनिधिसहजसंवासभवने ।
विधोश्चित्तायामे हृदयकमले ते तु कमले 
मनाङ्ग मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥२३॥

मृणालीनां लीलाः सहजलवणिम्ना लघयतां 
चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः ।
लुठन्ति स्वच्छन्दं मरकतशिलामांसलरुचः 
श्रुतीनां स्पर्धां ये दधत इव कण्ठे मधुरिपोः ॥२४॥

अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता 
तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् ।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ 
गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥२५॥

अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां 
रसज्ञामज्ञानां क इव कमले मन्थरयतु ।
त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां 
कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः ॥२६॥

समाहारः श्रीणां विरचितविहारो हरिदृशां 
परीहारो भक्‍तप्रभवभवसन्तापसरणेः ।
प्रहारः सर्वासामपि च विपदां विष्णुदयिते 
ममोद्धारोपायं तव सपदि हारो विमृशतु ॥२७॥

अलङ्कुर्वाणानां मणिगणघृणीनां लवणिमा 
यदीयाभिर्भाभिर्भजति महिमानं लघुरपि ।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवास्-
तवाङ्गुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥२८॥

तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं 
तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् ।
हरिः कम्बुं चुम्बत्यथ वहति पाणौ किमधिकं
वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥२९॥

अभूदप्रत्यूहः सकलहरिदुल्लासनविधिर्-
विलीनो लोकानां स हि नयनतापोऽपि कमले ।
तवास्मिन्पीयूषं किरति वदने रम्यवदने 
कुतो हेतोश्चेतोविधुरयमुदेति स्म जलधेः ॥३०॥

मुखाम्भोजे मन्दस्मितमधुरकान्त्या विकसतां 
द्विजानां ते हीरावलिविहितनीराजनरुचाम् ।
इयं ज्योत्स्ना कापि स्रवदमृतसन्दोहसरसा
ममोद्यद्दारिद्र्यज्वरतरुणतापं तिरयतु ॥३१॥

कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि 
च प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् ।
वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं 
तव श्वासा नासापुटविहितवासा विदधताम् ॥३२॥

कपोले ते दोलायितललितलोलालकवृते 
विमुक्‍ता धम्मिल्लादभिलसति मुक्‍तावलिरियम् ।
स्वकीयानां बन्दीकृतमसहमानैरिव बलान्-
निबध्योर्ध्वं कृष्टा तिमिरनिकुरम्बैर्विधुकला ॥३३॥

प्रसादो यस्यायं नमदमितगीर्वाणमुकुट-
प्रसर्पज्जोत्स्नाभिश्चरणतलपीठार्चितविधिः ।
दृगम्भोजं तत्ते गतिहसितमत्तेभगमने
वने लीनैर्दीनैः कथय कथमीयादिह तुलाम् ॥३४॥

दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा 
दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा ।
दहन्ती दारिद्र्यद्रुमकुलमुदारद्रविणदा 
त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥३५॥

तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी 
सदैव श्रीनारायणगुणगणौघप्रणयिनी ।
रवैर्दीनां लीनामनिशमवधानातिशयिनी 
ममाप्येतां वाचं जलधितनये गोचरयताम् ॥३६॥

प्रभाजालैः प्राभातिकदिनकराभापनयनं 
तवेदं खेदं मे विघटयतु ताटङ्कयुगलम् ।
महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां 
जगत्पायं पायं स्वपिति निरपायं तव पतिः ॥३७॥

निवासो मुक्‍तानां निबिडतरनीलाम्बुदनिभस्-
तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् ।
भृशं यस्मिन्कालागरुबहुलसौरभ्यनिवहैः 
पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः ॥३८॥

विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ 
करोन्नीतैरञ्चन्मणिकलशमुग्धास्यगलितैः ।
निषिञ्चन्तौ मुक्‍तामणिगणजयैस्त्वां जलकणैर्-
नमस्यामो दामोदरगृहिणी दारिद्र्यदलिताः ॥३९॥

अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे
लुठन्तं बालं मामविरलगलद्बाष्पजटिलम् ।
सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः
स्पृशन्ती मा रोदीरिति वद समाश्वास्यसि कदा ॥४०॥

रमे पद्मे लक्ष्मि प्रणतजनकल्पद्रुमलते 
सुधाम्भोधेः पुत्रि त्रिदशनिकरोपास्तचरणे ।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले
जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥४१॥


==============================================

==============================================

कालसर्प दोष की शान्ति के समय रुद्राभिषेक के समय पर प्रत्यक्ष सर्पराज प्रकटे- अद्भुत चमत्कार. Kalsarpa Dosha Shanti me Rudrabhishek ke Time Sarparaj. https://youtu.be/54goQCTpbpU

मित्रों, इस विडियो को अवश्य देखें, कालसर्प दोष की शान्ति करवाते समय स्वयं सर्पराज आये अपना अभिषेक करवाने ।।

अहमदाबाद से यजमान आये थे, उनकी श्रद्धा और हमारे पण्डितों के वेद मन्त्रों का शुभ फल और ये अद्भुत चमत्कार, आप भी देखें ।।


==============================================

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

==============================================

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

==============================================

संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

WhatsAap+ Viber+Tango & Call: +91 - 8690 522 111.
E-Mail :: astroclassess@gmail.com

Website :: www.astroclasses.com
www.astroclassess.blogspot.com
www.facebook.com/astroclassess

।। नारायण नारायण ।।

Post a Comment

0 Comments