Header Ads Widget

अथ श्रीराधाकवचम् ।। Shri Radha Kavacham.

अथ श्रीराधाकवचम् ।।


महेश्वर उवाच:-
श्रीजगन्मङ्गलस्यास्य कवचस्य प्रजापतिः ॥ १॥

ऋषिश्चन्दोऽस्य गायत्री देवी रासेश्वरी स्वयम् ।
श्रीकृष्णभक्‍तिसम्प्राप्तौ विनियोगः प्रकीर्तितः ॥ २॥

शिष्याय कृष्णभक्‍ताय ब्रह्मणाय प्रकाश्येत् ।
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ ३॥

राज्यं देयं शिरो देयं न देयं कवचं प्रिये ।
कण्ठे धृतमिदं भक्त्या कृष्णेन परमात्मना ॥ ४॥

मया दृष्टं च गोलोके ब्रह्मणा विष्णुना पुरा ।
ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ५॥

कृष्णेनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु ।
ॐ ह्रीं श्रीं राधिकाङेन्तं वह्निजायान्तमेव च ॥ ६॥

कपालं नेत्रयुग्मं च श्रोत्रयुग्मं सदावतु ।
ॐ रां ह्रीं श्रीं राधिकेति ङेन्तं वह्नि जायान्तमेव च ॥ ७॥
 मस्तकं केशसङ्घांश्च मन्त्रराजः सदावतु ।
ॐ रां राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ८॥

सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम् ।
क्लीं श्रीं कृष्णप्रियाङेन्तं कण्ठं पातु नमोऽन्तकम् ॥ ९॥

ॐ रां रासेश्वरीङेन्तं स्कन्धं पातु नमोऽन्तकम् ।
ॐ रां रासविलासिन्यै स्वाहा पृष्ठं सदावतु ॥ १०॥

वृन्दावनविलासिन्यै स्वाहा वक्षः सदावतु ।
तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् ॥ ११॥

कृष्णप्राणाधिकाङेन्तं स्वाहान्तं प्रणवादिकम् ।
पादयुग्मं च सर्वाङ्गं सन्ततं पातु सर्वतः ॥ १२॥

राधा रक्षतु प्राच्यां च वह्नौ कृष्णप्रियावतु ।
तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् ॥ १३॥

पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता ।
उत्तरे सन्ततं पातु मूलप्रकृतिरीश्वरी ॥ १४॥

सर्वेश्वरी सदैशान्यां पातु मां सर्वपूजिता ।
जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ॥ १५॥

महाविष्णोश्च जननी सर्वतः पातु सन्ततं ।
कवचं कथितं दुर्गे श्रीजगन्मङ्गलं परम् ॥ १६॥

यस्मै कस्मै न दातव्य गुढाद् गुढतरं परम् ।
तव स्नेहान्मयाख्यातं प्रवक्‍तं न कस्यचित् ॥ १७॥

गुरुमभ्यर्च्य विधिवद् वस्त्रालङ्कारचन्दनैः ।
कण्ठे वा दक्षिणे बाहौ धृत्वा विष्णोसमो भवेत् ॥ १८॥

शतलक्षजपेनैव सिद्धं च कवचं भवेत् ।
यदि स्यात् सिद्धकवचो न दग्धो वह्निना भवेत् ॥ १९॥

एतस्मात् कवचाद् दुर्गे राजा दुर्योधनः पुरा ।
विशारदो जलस्तम्भे वह्निस्तम्भे च निश्चितम् ॥ २०॥

मया सनत्कुमाराय पुरा दत्तं च पुष्करे ।
सूर्यपर्वणि मेरौ च स सान्दीपनये ददौ ॥ २१॥

बलाय तेन दत्तं च ददौ दुर्योधनाय सः ।
कवचस्य प्रसादेन जीवन्मुक्‍तो भवेन्नरः ॥ २२॥

नित्यं पठति भक्त्येदं तन्मन्त्रोपासकश्च यः ।
विष्णुतुल्यो भवेन्नित्यं राजसूयफलं लभेत् ॥ २३॥

स्नानेन सर्वतीर्थानां सर्वदानेन यत्फलम् ।
सर्वव्रतोपवासे च पृथिव्याश्च प्रदक्षिणे ॥ २४॥

सर्वयज्ञेषु दीक्षायां नित्यं च सत्यरक्षणे ।
नित्यं श्रीकृष्णसेवायां कृष्णनैवेद्यभक्षणे ॥ २५॥

पाठे चतुर्णां वेदानां यत्फलं च लभेन्नरः ।
यत्फलं लभते नूनं पठनात् कवचस्य च ॥ २६॥

राजद्वारे श्मशाने च सिंहव्याघ्रान्विते वने ।
दावाग्नौ सङ्कटे चैव दस्युचौरान्विते भये ॥ २७॥

कारागारे विपद्ग्रस्ते घोरे च दृढबन्धने ।
व्याधियुक्‍तो भवेन्मुक्‍तो धारणात् कवचस्य च ॥ २८॥

इत्येतत्कथितं दुर्गे तवैवेदं महेश्वरि ।
त्वमेव सर्वरूपा मां माया पृच्छसि मायया ॥ २९॥

श्रीनारायण उवाच ।
इत्युक्त्वा राधिकाख्यानं स्मारं च माधवम् ।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभुव सः ॥ ३०॥

न कृष्णसदृशो देवो न गङ्गासदृशी सरित् ।
न पुष्करसमं तीर्थं नाश्रामो ब्राह्मणात् पर ॥ ३१॥

परमाणुपरं सूक्ष्मं महाविष्णोः परो महान् ।
नभ परं च विस्तीर्णं यथा नास्त्येव नारद ॥ ३२॥

तथा न वैष्णवाद् ज्ञानी यिगीन्द्रः शङ्करात् परः ।
कामक्रोधलोभमोहा जितास्तेनैव नारद ॥ ३३॥

स्वप्ने जागरणे शश्वत् कृष्णध्यानरतः शिवः ।
यथा कृष्णस्तथा शम्भुर्न भेदो माधवेशयोः ॥ ३४॥

यथा शम्भुर्वैष्णवेषु यथा देवेषु माधवः ।
तथेदं कवचं वत्स कवचेषु प्रशस्तकम् ॥ ३५॥

।। इति श्रीब्रह्मवैवर्ते श्रीराधिकाकवचं सम्पूर्णम् ।।

==============================================

वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

==============================================

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

==============================================

संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

WhatsAap+ Viber+Tango & Call: +91 - 8690 522 111.
E-Mail :: astroclassess@gmail.com

Website :: www.astroclasses.com
www.astroclassess.blogspot.com
www.facebook.com/astroclassess

।। नारायण नारायण ।।

Post a Comment

0 Comments