Header Ads Widget

श्रीविष्णुसहस्रनामस्तोत्रम् गरुडपुराणान्तर्गतम् ॥ Shri Vishnu Sahasranama Stotram from Garuda Purana.

श्रीविष्णुसहस्रनामस्तोत्रम् गरुडपुराणान्तर्गतम् ॥ 
Shri Vishnu Sahasranama Stotram from Garuda Purana.


रुद्र उवाच ।
संसारसागराद्धोरामुच्यते किं जपन्प्रभो ।
नरस्तन्मे परं जप्यं पथय त्वं जनार्दन ॥ १॥

हरिरुवाच ।
परेश्वरं परं ब्रह्म परमात्मानमव्ययम् ।
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २॥

यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! ।
शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३॥

ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः ।
बालचन्द्र निभो बालो बलभद्रो बलाधिपः ॥ ४॥

बलिबन्धनकृद्वेधा (११)वरेण्यो वेदवित्किविः ।
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ ५॥

वेदाङ्गवेत्ता वेदेशो(२०) बलाधारो बलार्दनः ।
अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ ६॥

वीरहा च बृहद्वीरो वन्दितः परमेश्वरः (३०) ।
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ ७॥

पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः ।
परमः (४०)परभूतश्च पुरुषोत्तम ईश्वरः ॥ ८॥

पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः ।
पद्माक्षः पद्मगर्भश्च पर्जन्यः (५०)पद्मसंस्थितः ॥ ९॥

अपारः परमार्थश्च पराणां च परः प्रभुः ।
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १०॥

शुद्धः (६०)प्रकाशरूपश्च पवित्रः परिरक्षकः ।
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथाः ॥ ११॥

प्रधानं पृथिवीपद्मं पद्मनाभः (७०)प्रियप्रदः ।
सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥ १२॥

सर्वस्य जगतो धाम सर्वदर्शो च सर्वभृत्(८०) ।
सर्वानुग्रहकृद्देवः सर्वभूतहृदि स्थितः ॥ १३॥

सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः ।
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः (९०) ॥ १४॥

सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् ।
सर्वध्येयः सर्वमित्रः सर्वदेस्ववरूपधृक् ॥ १५॥

सर्वाध्यक्षः सुराध्यक्ष सुरासुरनमस्कृतः ।
दुष्टानां च सुराणां च सर्वदा घातकोऽन्तकः (१०१) ॥ १६॥

सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः ।
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो (सिद्धिसिद्ध) हृदीश्वरः ॥ १७॥

शरणं जगतश्चैव (११०)श्रेयः क्षेमस्तथैव च ।
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १८॥

सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्य (त्प) दस्तथा (१२१) ।
धर्मो धर्मो च कर्मो च सर्वकर्मविवर्जितः ॥ १९॥

कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च ।
श्रीपतिर्नृपतिः (१३१)श्रीमान्सर्वस्य पतिरूर्जितः ॥ २०॥

सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः ।
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ २१॥

पशूनां च पतिः प्रायो वसूनां पतिरेव च (१४०) ।
पतिराखण्डलस्यैव वरूणस्य पतिस्तथा ॥ २२॥

वनस्पतीनां च पतिरनिलस्य पतिस्तथा ।
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३॥

कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा ।
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा (१५०) ॥ २४॥

नागानां पतिरर्कस्य दक्षस्य पतिरेव च ।
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ २५॥

गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः ।
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ २६॥

सुराणां च पतिः श्रेष्ठः (१६०) कपिलस्य पतिस्तथा ।
लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ २७॥

मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः ।
पतिश्चन्द्रमसः श्रेष्ठः सुक्रस्य पतिरेव च ॥ २८॥

ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ।
किन्नराणां पतिश्चैव (१७०)द्विजानां पतिरुत्तमः ॥ २९॥

सरितां च पतिश्चैव समुद्राणां पतिस्तथा ।
सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ ३०॥

वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा ।
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ ३१॥

महात्मा (१८०)मङ्गलो मेयो मन्दरो मन्दरेश्वरः ।
मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ ३२॥

मालाधरो (१९०)महादेवो महादेवेन पूजितः ।
महाशान्तो महाभागो मधुसूदन एव च ॥ ३३॥

महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः(२००) ।
मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ ३४॥

मुनिस्तुतो मुनिर्मैत्रो (२१०)महाना (रा) सो महाहनुः ।
महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ ३५॥

महावत्क्क्रो महात्मा च महाकायो महोदरः ।
महापादो महाग्रीवो महामानी महामनाः ॥ ३६॥

महागतिर्मंहाकीर्तिर्महारूपो (२२२)महासुरः ।
मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ ३७॥

मखेज्यो मखरूपी च माननीयो (२३०)मखेश्वरः ।
महावातो महाभागो महेशोऽतीतमानुषः ॥ ३८॥

मानवश्च मनुश्चैव मानवानां प्रियङ्करः ।
मृगश्च मृगपूज्यश्च (२४०)मृगाणां च पतिस्तथा ॥ ३९॥

बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः ।
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ ४०॥

लक्ष्मणो लक्षणश्चैव लम्बौष्ठो ललितस्तथा(२५०) ।
नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः ॥ ४१॥

नानारसोज्जवलद्वक्क्रो नानापुष्पोपशोभितः ।
रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ ४२॥

रत्नदो रत्नहर्ता च(२६०)रूपी रूपविवर्जितः ।
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ ४३॥

नीलमेघनिभः शुद्धः सालमेघनिभस्तथा ।
धूमवर्णः पतिवर्णो नानारूपो(२७०)ह्यवर्णकः ॥ ४४॥

विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च ।
सर्ववर्णो महायोगी यज्ञो (याज्यो) यज्ञकृदेव च ॥ ४५॥

सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च (२८०)सुवर्णावयवश्चैव
सुवर्णः स्वर्णमेखलः ॥ ४६॥

सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च ।
सुवर्णस्य प्रियश्चैव (२९०)सुवर्णाढ्यस्तथैव च ॥ ४७॥

सुपर्णो च महापर्णो सुपर्णस्य च कारण्(२९०) ।
वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ ४८॥

कारणं महतश्चैव प्रधानस्य च कारणम् ।
बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ ४९॥

कारणं चैतसश्चैव(३००)अहङ्कारस्य कारणम् ।
भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ ५०॥

आकाशकारणं तद्वत्पृथिव्याः कारणं परम् ।
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ ५१॥

देहस्य कारणं चैव चक्षुषश्चैव कारणम् ।
श्रोत्रस्य कारणं(३१०) तद्वत्कारणं च त्वचस्तथा ॥ ५२॥

जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् ।
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ ५३॥

वाचश्चकारणं तद्वत्पायोश्चैव तुकारणम् ।
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ ५४॥

यमस्य कारणं चैव (३२०)ईशानस्य च कारणम् ।
यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ ५५॥

नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम् ।
जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ ५६॥

मनूनां कारणं चैव पक्षिणां कारणं परम् ।
मुनीनां कारणं श्रेष्ठ(३३०)योगिनां कारणं परम् ॥ ५७॥

सिद्धानां कारणं चैव यक्षाणां कारणं परम् ।
कारणं किन्नराणां च(३४०) गन्धर्वाणां च कारणम् ॥ ५८॥

नदानां कारणं चैव नदीनां कारणं परम् ।
कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९॥

कारणं वीरुधां चैव लोकानां कारणं तथा ।
पाताल कारणं चैव देवानां कारणं तथा ॥ ६०॥

सर्पाणां कारणं चैव(३५०)श्रेयसां कारणं तथा ।
पूशनां कारणं चैव सर्वेषां कारणं तथा ॥ ६१॥

देहात्मा चेन्द्रियात्मा च आत्मा बुद्धिस्तथैव च ।
मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ ६२॥

जाग्रतः स्वपतश्चात्मा (३६०)महदात्मा परस्तथा ।
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ ६३॥

पृथिव्याः परमात्मा च रसस्यात्मा तथैव च ।
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ ६४॥

शब्दात्मा चैव (३७०)वागात्मा स्पर्शात्मा पुरुषस्तथा ।
श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ ६५॥

घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा(३८०) ।
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ ६६॥

इन्द्रात्मा चैव ब्रह्मात्मा रुद्रा(शान्ता)त्मा च मनोस्तथा ।
दक्षप्रजापतेरात्मा सत्या (स्रष्टा)त्मा परमस्तथा ॥ ६७॥

ईशात्मा(३९०)परमात्मा च रौद्रात्मा मोक्षविद्यतिः ।
यत्नवांश्च तथा यत्नश्चर्मो खड्गी मुरान्तकः ॥ ६८॥

ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः ।
यतिरूपी च (४००)योगी च योगिध्येयो हरिः शितिः ॥ ६९॥

संविन्मेधा च कालश्च ऊष्मा वर्षा म(न) तिस्तथा(४१०) ।
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ ७०॥

मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः ।
संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः (४२०) ॥ ७१॥

अत्निर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ।
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ ७२॥

शर्मदश्चैव(४३०) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः ।
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ ७३॥

नारायणो महाभागः प्राणस्य पतिरेव च (४४०) ।
अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ ७४॥

उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ।
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ ७५॥

रूपाणां च पतिश्चाद्यः खङ्गपाणिर्हलायुधः(४५०) ।
चक्रपाणिः कुण्डली च श्रीवत्सांकस्तथैव च ॥ ७६॥

प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ।
सुमुखो दुर्मुखश्चैव मुनखेन तु विवर्जितः ॥ ७७॥

अनन्तोऽनन्तरूपश्च(४६१)सुनखः सुरमन्दरः ।
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चैषुधीस्तथा ॥ ७८॥

हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (४७०) ।
निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ ७९॥

केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ।
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ ८०॥

अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च ।
अक्रूरः क्रूररूपश्च(४८०)अक्रूरप्रियवन्दितः ॥ ८१॥

भगहा भगवान्भानुस्तथा भागवतः स्वगवतः स्वयम् ।
उद्धवश्चोद्धवस्येशो ह्युद्धेवन विचिन्तितः ॥ ८२॥

चक्रधृक्चञ्चलश्चैव(४९०) चलाचलविवर्जितः ।
अहं कारोपमाश्चित्तं गगनं पृथिवी जलम् ॥ ८३॥

वायुश्चक्षुस्तथा श्रोत्रं(५००)जिह्वा च घ्राणमेव च ।
वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ ८४॥

शङ्करश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्नरः (५११) ।
भक्तप्रियस्तता भर्ता भक्तिमान्भक्तिवर्धनः ॥ ८५॥

भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः ।
कीर्तिर्देप्तिः (५२०) क्षमाकान्तिर्भक्तश्चैव (५३०) दया परा ॥ ८६॥

दानं दाता च कर्ता च देवदेवप्रियः शुचिः ।
शुचिमा न्सुखदो (५३१)मोक्षः कामश्चार्थः सहस्रपात् ॥ ८७॥

सहस्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च ।
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च(५४०) ॥ ८८॥

शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ।
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ ८९॥

मत्स्यः परशुरामश्च(५५०)प्रह्रादो बलिरेवच ।
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ ९०॥

खरदूषणहन्ता च रावणस्य प्रमर्दनः ।
सीतापतिश्च (५६०)वर्धिष्णुर्भरतश्च तथैव च ॥ ९१॥

कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ।
नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ ९२॥

दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च ।
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः (५७०) ॥ ९३॥

यमलार्जनभेत्ता च तपोहितकरस्तथा ।
वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ ९४॥

सारः सारप्रियः सौरः कालहन्तृनिकृन्तनः(५८०) ।
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ ९५॥

प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः (५९०)शरत् ।
उदानश्च समानश्च भेषजं च भिषक्तथा ॥ ९६॥

कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ।
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः(६००) ॥ ९७॥

हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः ।
पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ ९८॥

प्रबोधेन विहीनश्च बुद्ध्या चैव वि वर्जितः ।
चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ ९९॥

अपानेन विहीनश्च व्यानेन च विवर्जितः(६१०) ।
उदानेन विहीनश्च समानेन विवर्जितः ॥ १००॥

आकाशेन विहीनश्च वायुना परिवर्जितः ।
अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १०१॥

पृथिव्या च विहीनश्च शब्देन च विवर्जितः ।
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः(६२०) ॥ १०२॥

रागेण विगतश्चैव अघेन परिवर्जितः ।
शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १०३॥

रजो विवर्जितश्चैव विकारैः षड्भिरेव च ।
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १०४॥

लोभेन विगतश्चैव दम्भेन च विवर्जितः ।
सूक्ष्मश्चैव (६३०)सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १०५॥

विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ।
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १०६॥

भूतानां क्षोभकश्चैव बुद्धेश्च क्षोमकस्तथा ।
इन्द्रियाणां क्षोभकश्च(६४०)विषयक्षोभकस्तथा ॥ १०७॥

ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ।
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १०८॥

त्वचा न गम्यः कूर्मश्च जिह्वाग्राह्यस्तथैव च ।
ग्राणोन्द्रियागम्य एव वाचाग्राह्यस्तथैव च (६५०) ॥ १०९॥

अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च ।
अग्राह्यो मनसश्चैव बुद्ध्याग्राह्यो हरिस्तथा ॥ ११०॥

अहं बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्या एव च ।
शङ्खपाणिश्चाव्ययश्च गदापाणिस्तथैव च (६६०) ॥ १११॥

शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः ।
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ ११२॥

ज्ञेयश्च ज्ञेयहीनश्च (६७०) ज्ञप्तिश्चैतन्यरूपकः ।
भावो भाव्यो भवकरो भावनो भवनाशनः ॥ ११३॥

गो विन्दो गोपतिर्गोपः(६८०)सर्वगोपीसुखप्रदः ।
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ ११४॥

उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ।
आरणेयो(६९०) बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ ११५॥

दामोदरस्त्निकालश्च कालज्ञः कालवर्जितः ।
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं(७००)त्रिविक्रमः ॥ ११६॥

विक्रमो दण्ड(र) हस्तश्च ह्येकदण्डी त्रिदण्डधृक् ।
सामभेदस्तथोपायः सामरूपी च सामगः ॥ ११७॥

सामवेदोः(७१०)ह्यथर्वश्च सुकृतः सुतरूपणः ।
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ ११८॥

ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः ।
यजुर्वेदो(७२०)यजुर्वेदविदेकपात् ॥ ११९॥

बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् ।
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली(७३०) ॥ १२०॥

सन्न्यासी चै सन्नयासश्चतुराश्रम एव च ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १२१॥

ब्राह्मणः क्षत्रियो वैश्यः (७४०)शूद्रो वर्णस्तथैव च ।
शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः ॥ १२२॥

मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ।
पूज्यो(७५०)वाक्करणं चैव वाच्यं चैव तु वाचकः ॥ १२३॥

वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित् ।
वाक्यगम्यस्तीर्थवासी(७६०) तीर्थस्तीर्थो च तीर्थवित् ॥ १२४॥

तीर्थादिभूतः सांख्यश्च निरुक्तं त्वधिदैवतम् ।
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः(७७०) ॥ १२५॥

प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ।
शालग्रामनिवासी च (७८०)शालग्रामस्तथैव च ॥ १२६॥

जलशायी योगशायी शेषशायी कुशेशयः ।
महीभर्ता च (७९०) कार्यं च कारणं पृथिवीधरः ॥ १२७॥

प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् ।
सम्राट्पूषा(८००) तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ १२८॥

धनी धनप्रदो धन्यो यादवानां हिते रतः ।
अर्जुनस्य प्रियश्चैव ह्यर्जुनो(८१०)भीम एव च ॥ १२९॥

पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ।
सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १३०॥

अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च (८२०) ।
इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १३१॥

कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ।
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १३२॥

मुद्रो(८३०)मुद्रा करश्चैव सर्वमुद्राविवर्जितः ।
देही देहस्थितश्चैव देहस्य च नियामकः ॥ १३३॥

श्रोत्रा श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा ।
त्वक्स्थितश्च(८४०)स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा ॥ १३४॥

रूपद्रष्टा च चक्षुः स्थो नियन्ता चक्षुषस्तथा ।
दृश्यं चैवतु जिह्वास्थो रसज्ञश्च नियामकः (८५०) ॥ १३५॥

घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः ।
वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १३६॥

प्राणिस्थः (८६०)शिल्प कृच्छिल्पो हस्तयोश्च नियामकः ।
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १३७॥

नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत्(८७०) ।
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखं तथा ॥ १३८॥

उपस्थस्य नियन्ता च तदानन्दकरश्च ह ।
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १३९॥

अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः (८८०) ।
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १४०॥

अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः ।
धूमकृद्धूमरूपश्च(८९०) देवकीपुत्र उत्तमः ॥ १४१॥

देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च ।
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १४२॥

दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च (९००) ।
अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १४३॥

अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ।
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ १४४॥

गोपीनां वल्लभश्चैव(९१०)पुण्यश्लोकश्च विश्रुतः ।
वृषाकपिर्यमो गुह्यो मकुलश्च बुधस्तथा ॥ १४५॥

राहुः केतुर्ग्रहो ग्राहो(९२०) गजेन्द्रमुखमेलकः ।
ग्राहस्य विनिहन्ता च ग्रामी रक्षकस्तथा ॥ १४६॥

किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ।
विश्वरूपो विशालाक्षो(९३०) दैत्यसूदन एव च ॥ १४७॥

अनन्तरूपो भूतस्थो देवदानवसंस्थितः ।
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १४८॥

जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (९४०) ।
स्वप्रस्थः स्वप्रवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १४९॥

जाग्रत्स्वप्नसुषुप्तैश्च विहीनो वै चतुर्थकः ।
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा (९५०) ॥ १५०॥

भुवनाधिपतिश्चैव भुवनानां नियामकः ।
पातालवासी पातालं सर्वज्वरविनाशनः ॥ १५१॥

परमानन्दरूपी च धर्माणां च प्रवर्तकः ।
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा(९६०) ॥ १५२॥

प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ।
प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १५३॥

अग्राहश्चैव गौरश्च सर्वः(९७०)शुचिरभिष्टुतः ।
वषट्कारो वषड्वौषट्स्वधा स्वाहा रतिस्तथा ॥ १५४॥

पक्ता नन्दयिता(९८०)भोक्ता बोद्धा भावयिता तथा ।
ज्ञानात्मा चैव देहात्मा भू(उ) मा सर्वेश्वरेश्वरः ॥ १५५॥

नदी नन्दी च नन्दीशो(९९०)भारतस्तरुनाशनः ।
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥ १५६॥

ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा ।
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च (१०००) ॥ १५७॥

भरतो जनको जन्यः सर्वाकारवि वर्जितः ।
निराकारो निर्निमित्तो निरातङ्को निराश्रयः (१००८) ॥ १५८॥

इति नामसहस्रं ते वृषभध्वज कीर्तितम् ।
देवस्य विष्णोरीशश्य सर्वपापविनाशनम् ॥ १५९॥

पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ।
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १६०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशोऽध्यायः॥

Post a Comment

0 Comments