Header Ads Widget

अथ श्रीआदित्य द्वादश नाम स्तोत्रम् ।।



अथ श्रीआदित्य द्वादश नाम स्तोत्रम् ।। Aditya Dwadash Name Stotram.
एकचक्रो रथो यस्य दिव्यः कनकभूषणः ।
स मे भवतु सुप्रीतः पञ्चहस्तो दिवाकरः ॥१॥
आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥२॥

पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।
सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥३॥
नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकः ।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥४॥

द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ।
दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति ॥५॥
।। इति आदित्यद्वादशनामस्तोत्रं समाप्तम् ।।

Post a Comment

0 Comments