Header Ads Widget

अथ श्री आञ्जनेय मङ्गलाष्टकम् ।।

अथ श्री आञ्जनेय मङ्गलाष्टकम् ।। Shri Anjaneya Mangalashtakam.


कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे ।
जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥ १॥

मनोवेगाय उग्राय कालनेमिविदारिणे ।
लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥ २॥

महाबलाय शान्ताय दुर्दण्डीबन्धमोचन ।
मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ॥ ३॥

पर्वतायुधहस्ताय राक्षःकुलविनाशिने ।
श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ॥ ४॥

विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे ।
ऋषिभिस्सेवितायास्तु आञ्जनेयाय मङ्गलम् ॥ ५॥

दीर्घबालाय कालाय लङ्कापुरविदारिणे ।
लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ॥ ६॥

नमस्तेऽस्तु ब्रह्मचारिन् नमस्ते वायुनन्दन । (नमस्ते ब्रह्मचर्याय)
नमस्ते गानलोलाय आञ्जनेयाय मङ्गलम् ॥ ७॥

प्रभवाय सुरेशाय शुभदाय शुभात्मने ।
वायुपुत्राय धीराय आञ्जनेयाय मङ्गलम् ॥ ८॥

आञ्जनेयाष्टकमिदं यः पठेत्सततं नरः ।
सिद्ध्यन्ति सर्वकार्याणि सर्वशत्रुविनाशनम् ॥ ९॥

।। इति श्रीआञ्जनेयमङ्गलाष्टकम् सम्पूर्णम् ।।

Post a Comment

0 Comments