Header Ads Widget

अथ श्रीअष्टलक्ष्मी महामन्त्रम् ।।

अथ श्रीअष्टलक्ष्मी महामन्त्रम्  Shri Ashtalakshmi Mahamantram.


अथ श्रीलक्ष्मीनारायणः ।।

अथ विनियोगः - ॐ अस्य श्रीरमानाथमहामन्त्रस्य । नारायण ऋषिः । विराट् छन्दः । लक्ष्मीनारायणो देवता । अं बीजं, उं शक्तिः । मं कीलकं । अस्य श्रीलक्ष्मीनारायण प्रसादसिद्ध्यर्थे जपे विनियोगः ।।

अथ करन्यासः - ॐ अङ्गुष्ठाभ्यां नमः । ॐ नं तर्जनीभ्यां नमः । ॐ रं मध्यमाभ्यां नमः । ॐ यं अनामिकाभ्यां नमः । ॐ णं कनिष्ठिकाभ्यां नमः । ॐ यं करतलकरपृष्ठाभ्यां नमः ।।

अथ हृदयान्यासः - ॐ हृदयाय नमः । ॐ नं शिरसे स्वाहा । ॐ रं शिखायै वषट् । ॐ यं कवचाय हुं । ॐ णं नेत्राभ्यां वौषट् । ॐ यं अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।

श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् ।
वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥

सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् ।
दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥

शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् ।
एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥

अथ मूलमन्त्रम् - ॐ नमो नारायणाय ।।

श्री आदिलक्ष्मीः ।।

अथ विनियोगः - ॐ अस्य श्री आदिलक्ष्मीमहामन्त्रस्य । भार्गव ऋषिः । अनुष्टुपादि नाना छन्दांसि । श्री आदिलक्ष्मीर्देवता । श्रीं बीजं, ह्रीं शक्तिः । ऐं कीलकं । श्रीमदादि महालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।।

अथ करन्यासः - ॐ श्रीं अङ्गुष्ठाभ्यां नम: । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ऐं मध्यमाभ्यां नम: । ॐ श्रीं अनामिकाभ्यां नमः । ॐ ह्रीं कनिष्ठिकाभ्यां नमः । ॐ ऐं करतलकरपृष्ठाभ्यां नमः ।।

अथ हृदयान्यासः - ॐ श्रीं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ऐं शिखायै वषट् । ॐ श्रीं कवचाय हुं । ॐ ह्रीं नेत्राभ्यां वौषट् । ॐ ऐं अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।
द्विभुजां च द्विनेत्रां च साभयां वरदान्विताम् ।
पुष्पमालाधरां देवीं अम्बुजासनसंस्थिताम् ॥

पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् ।
सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥

पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् ।
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥

अथ मूलमन्त्र: - ॐ श्रीं आदिलक्ष्म्यै नमः ।।

अथ श्रीसन्तानलक्ष्मी ।।

अथ विनियोगः - ॐ अस्य श्रीसन्तानलक्ष्मीमहामन्त्रस्य । भृगु ऋषिः । निचृत् छन्दः । श्रीसन्तानलक्ष्मीः देवता । श्रीं बीजं । ह्रीं शक्तिः । क्लीं कीलकं । अस्य श्रीसन्तानलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।।

अथ करन्यासः - ॐ स्रां अङ्गुष्ठाभ्यां नमः । ॐ स्रीं तर्जनीभ्यां नमः । ॐ स्रूं मध्यमाभ्यां नमः । ॐ स्रैं अनामिकाभ्यां नमः । ॐ स्रौं कनिष्ठिकाभ्यां नमः । ॐ स्रः करतलकरपृष्ठाभ्यां नमः ।।

अथ हृदयान्यासः - ॐ स्रां हृदयाय नमः । ॐ स्रीं शिरसे स्वाहा । ॐ स्रूं शिखायै वषट् । ॐ स्रैं कवचाय हुं । ॐ स्रौं नेत्राभ्यां वौषट् । ॐ स्रः अस्त्राय पट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।
जटामकुटसम्युक्तां स्थिरासन्समन्विताम् ।
अभयं कटकञ्चैव पूर्णकुम्भं करद्वये ॥

कञ्चुकं सन्नवीतञ्च मौक्तिकञ्चापि धारिणीम् ।
दीपचामरहस्ताभिः सेवितां पार्श्वयोर्द्वयोः ॥

बालसेनानिसङ्काशां करुणापूरिताननाम् ।
महाराज्ञीं च सन्तानलक्ष्मीमिष्टार्थसिद्धये ॥

अथ मूलमन्त्र: - ॐ श्रीं सन्तानलक्ष्म्यै नमः ।।

अथ श्रीगजलक्ष्मीः ।।
अथ विनियोगः - ॐ अस्य श्रीगजलक्ष्मीमहामन्त्रस्य । शुक्र ऋषिः । अनुष्टुप् छन्दः । गजलक्ष्मीः देवता । कं बीजं । मं शक्तिः । लं कीलकं । श्रीगजलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।।

अथ करन्यासः - ॐ क्रां अङ्गुष्ठाभ्यां नमः । ॐ क्रीं तर्जनीभ्यां नमः । ॐ क्रूं मध्यमाभ्यां नमः । ॐ क्रैं अनामिकाभ्यां नमः । ॐ क्रौं कनिष्ठिकाभ्यां नमः । ॐ क्रः करतलकरपृष्ठाभ्यां नमः ।।

अथ हृदयान्यासः - ॐ क्रां हृदयाय नमः । ॐ क्रीं शिरसे स्वाहा । ॐ क्रूं शिखायै वषट् । ॐ क्रैं कवचाय हुं । ॐ क्रौं नेत्राभ्यां वौषट् । ॐ क्रः अस्त्राय पट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।
चतुर्भुजां महालक्ष्मीं गजयुग्मसुपूजिताम् ।
पद्मपत्राभनयनां वराभयकरोज्ज्वलाम् ॥

ऊर्ध्वं करद्वये चाब्जं दधतीं शुक्लवस्त्रकम् ।
पद्मासने सुखासीनां गजलक्ष्मीमहं भजे ॥

अथ मूलमन्त्र: - ॐ श्रीं गजलक्ष्म्यै नमः ।।

अथ श्रीधनलक्ष्मीः ।।
अथ विनियोगः - अस्य श्रीधनलक्ष्मीमहामन्त्रस्य । परब्रह्म ऋषिः । अनुष्टुप्छन्दः । श्रीधनलक्ष्मीः देवता । लं बीजं । धं शक्तिः । मं कीलकं । श्रीधनलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।।

अथ करन्यासः - ॐ त्रां अङ्गुष्ठाभ्यां नमः । ॐ त्रीं तर्जनीभ्यां नमः । ॐ त्रूं मध्यमाभ्यां नमः । ॐ त्रैं अनामिकाभ्यां नमः । ॐ त्रौं कनिष्ठिकाभ्यां नमः । ॐ त्रः करतलकरपृष्ठाभ्यां नमः ।।

अथ हृदयान्यासः - ॐ त्रां हृदयाय नमः । ॐ त्रीं शिरसे स्वाहा । ॐ त्रूं शिखायै वषट् । ॐ त्रैं कवचाय हुं । ॐ त्रौं नेत्राभ्यां वौषट् । ॐ त्रः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।
किरीटमुकुटोपेतां स्वर्णवर्णसमन्विताम् ।
सर्वाभरणसम्युक्तां सुखासनसमन्विताम् ॥

परिपूर्णञ्च कुम्भञ्च दक्षिणेन करेण तु ।
चक्रं बाणञ्च ताम्बूलं तदा वामकरेण तु ॥

शङ्खं पद्मञ्च चापञ्च कुण्डिकामपि धारिणीम् ।
सकञ्चुकस्तनीं ध्यायेत् धनलक्ष्मीं मनोहराम् ॥

अथ मूलमन्त्रम् - ॐ श्रीं धनलक्ष्म्यै नमः ।।

अथ श्रीधान्यलक्ष्मीः ।।

अथ विनियोगः - अस्य श्रीधान्यलक्ष्मीमहामन्त्रस्य । परब्रह्म ऋषिः । अनुष्टुप्छन्दः । श्री धान्यलक्ष्मीः देवता । धं बीजं । लं शक्तिः । मं कीलकं । श्रीधान्यलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।।

अथ करन्यासः - ॐ द्रां अङ्गुष्टाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।।

अथ हृदयान्यासः - ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा । ॐ द्रूं शिखायै वषट् । ॐ द्रैं कवचाय हुं । ॐ द्रौं नेत्राभ्यां वौषट् । ॐ द्रः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।
वरदाभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजञ्चेक्षुशालिञ्च कदम्बफलद्रोणिकाम् ॥

पङ्कजञ्चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासनसमन्विताम् ॥

सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

अथ मूलमन्त्रम् - ॐ श्रीं धान्यलक्ष्म्यै नमः ।।

अथ श्रीविजयलक्ष्मीः ।।

अथ विनियोगः - अस्य श्रीविजयलक्ष्मीमहामन्त्रस्य । नारद ऋषिः । नाना छन्दांसि । श्रीविजयलक्ष्मीः देवता । लं बीजं । क्षं शक्तिः । यं कीलकं । सर्वकार्यसिद्धिद्वारा श्रीविजयलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।।

अथ करन्यासः - ॐ व्रां अङ्गुष्ठाभ्यां नमः । ॐ व्रीं तर्जनीभ्यां नमः । ॐ व्रूं मध्यमाभ्यां नमः । ॐ व्रैं अनामिकाभ्यां नमः । ॐ व्रौं कनिष्ठिकाभ्यां नमः । ॐ व्रः करतलकरपृष्ठाभ्यां नमः ।।

अथ हृदयान्यासः - ॐ व्रां हृदयाय नमः । ॐ व्रीं शिरसे स्वाहा । ॐ व्रूं शिखायै वषट् । ॐ व्रैं कवचाय हुं । ॐ व्रौं नेत्राभ्यां वौषट् । ॐ व्रः अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।
अष्टबाहुयुतां देवीं सिम्हासनवरस्थिताम् ।
सखासनां सुकेशीञ्च किरीटमुकुटोज्ज्वलाम् ॥

श्यामाङ्गीं कोमलाकारां सर्वाभरणभूषिताम् ।
खड्गं पाशं तदा चक्रमभयं सव्यहस्तके ॥

खेटकञ्चाङ्कुशं शङ्खं वरदं वामहस्तके ।
राजरूपधरां शक्तिं प्रभासौन्दर्यशोभिताम् ॥

हंसारूढां स्मरेद्देवीं विजयां विजयप्रदे ॥

अथ मूलमन्त्रं - ॐ श्रीं विजयलक्ष्म्यै नमः ।।

अथ श्रीधैर्य(वीर)लक्ष्मीः ।।

अथ विनियोगः - ॐ अस्य श्रीवीरलक्ष्मीमहामन्त्रस्य । नारद ऋषिः । तृष्टुप्छन्दः । श्रीवीरलक्ष्मीः देवता । लं बीजं । रं शक्तिः । लं कीलकं । आरोग्यभाग्यसिद्धिद्वारा श्रीवीरलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।।

अथ करन्यासः - ॐ व्रां अङ्गुष्ठाभ्यां नमः । ॐ व्रीं तर्जनीभ्यां नमः । ॐ व्रूं मध्यमाभ्यां नमः । ॐ व्रैं अनामिकाभ्यां नमः । ॐ व्रौं कनिष्ठिकाभ्यां नमः । ॐ व्रः करतलकरपृष्ठाभ्यां नमः ।।

अथ हृदयान्यासः - ॐ व्रां हृदयाय नमः । ॐ व्रीं शिरसे स्वाहा । ॐ व्रूं शिखायै वषट् । ॐ व्रैं कवचाय हुं । ॐ व्रौं नेत्राभ्यां वौषट् । ॐ व्रः अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।
अष्टबाहुयुतां लक्ष्मीं सिम्हासनवरस्थिताम् ।
तप्तकाञ्चनसङ्काशां किरीटमकुटोज्ज्वलाम् ॥

स्वर्णकञ्चुकसंयुक्तां सन्नवीततरां शुभाम् ।
अभयं वरदं चैव भुजयोः सव्यवामयोः ॥

चक्रं शूलञ्च बाणञ्च शङ्खं चापं कपालकम् ।
दधतीं धैर्यलक्ष्मीं च नवतालात्मिकां भजे ॥

अथ मूलमन्त्रम् - ॐ श्रीं वीरलक्ष्म्यै नमः ।।

अथ श्री ऐश्वर्य(महा)लक्ष्मीः ।।

अथ विनियोगः - ॐ अस्य श्रीमहालक्ष्मीमहामन्त्रस्य । ब्रह्मा ऋषिः । जगती छन्दः । श्रीमहालक्ष्मीः देवता । ह्रां बीजं । ह्रीं शक्तिः । ह्रूं कीलकं । श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।।

अथ करन्यासः - ॐ क्ष्रां अङ्गुष्टाभ्यां नमः । ॐ क्ष्रीं तर्जनीभ्यां नमः । ॐ क्ष्रूं मध्यमाभ्यां नमः । ॐ क्ष्रैं अनामिकाभ्यां नमः । ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः । ॐ क्ष्रः करतलकरपृष्ठाभ्यांनमः ।।

अथ हृदयान्यासः - ॐ क्ष्रां हृदयाय नमः । ॐ क्ष्रीं शिरसे स्वाहा । ॐ क्ष्रूं शिखायै वषट् । ॐ क्ष्रैं कवचाय हुं । ॐ क्ष्रौं नेत्राभ्यां वौषट् । ॐ क्ष्रः अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।

चतुर्भुजां द्विनेत्राञ्च वराभयकरान्विताम् ।
अब्जद्वयकराम्भोजां अम्बुजासनसंस्थिताम् ॥

ससुवर्णघटोराभ्यां प्लाव्यमानां महाश्रियम् ।
सर्वाभरणशोभाढ्यां शुभ्रवस्त्रोत्तरीयकाम् ॥

चामरग्रहनारीभिः सेवितां पार्श्वयोर्द्वयोः ।
आपादलम्बिवसनां करण्डमकुटां भजे ॥

अथ मूलमन्त्रम् - अं श्रीं श्रीमहालक्ष्म्यै नमः ।।

।। इति श्रीअष्टलक्ष्मीमहामन्त्रं सम्पूर्णम् ।।

Post a Comment

0 Comments