Header Ads Widget

अथ श्री अष्टलक्ष्मी मन्त्र सिद्धि विधानम् ।।

अथ श्री अष्टलक्ष्मी मन्त्र सिद्धि विधानम् ।। Shri Ashtalakshmi Mantra Siddhi Vidhanam.


आदौ अथ श्रीरमानाथ ध्यानम् ।।
श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् ।
वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥

सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् ।
दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥

शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् ।
एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥

ऋषिः - छन्दः - देवता - विनियोगः - 
अस्य श्रीअष्टलक्ष्मीमहामन्त्रस्य - दक्षप्रजापतिः ऋषिः -
गायत्री छन्दः - महालक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः -
नमः कीलकं - श्रीमहालक्ष्मीप्रसादेन अष्टैश्वर्यप्राप्तिद्वारा
मनोवाक्कायसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः ।।
श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं अङ्गुष्टाभ्यां नमः ।
श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं तर्जनीभ्यां नम ॥

श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं मध्यमाभ्यां नमः ।
श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं अनामिकाभ्यां नमः ।
श्रीं ह्रीं श्रीं महालक्ष्म्यै श्रीं ह्रीं श्रीं कनिष्ठिकाभ्यां नमः ।
श्रीं ह्रीं श्रीं नमः श्रीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ॥

हृदयादि न्यासः ।।
श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं हृदयाय नमः ।
श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं शिरसे स्वाहा ।
श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं शिखायै वषट् ।
श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं कवचाय हुम् ।
श्रीं ह्रीं श्रीं महालक्ष्म्यै श्रीं ह्रीं श्रीं नेत्रत्रयाय वौषट् ।
श्रीं ह्रीं श्रीं नमः श्रीं ह्रीं श्रीं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

अथ ध्यानम् -
वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मे दधानां
आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥

                  अथ पूजा ।।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
लं पृथ्वीतत्त्वात्मकं गन्धं समर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
हं आकाशतत्त्वात्मकं पुष्पं समर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
यं वायुतत्त्वात्मकं धूपमाघ्रापयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
रं वह्नितत्त्वात्मकं दीपं दर्शयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
वं अमृततत्त्वात्मकं नैवेद्यं समर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
सं सर्वतत्त्वात्मकं सर्वोपचारपूजां समर्पयामि नमः ।

अष्टनामार्चना ।।
ॐ आदिलक्ष्म्यै नमः । ॐ सन्तानलक्ष्म्यै नमः ।
ॐ गजलक्ष्म्यै नमः । ॐ धनलक्ष्म्यै नमः ।
ॐ धान्यलक्ष्म्यै नमः । ॐ विजयलक्ष्म्यै नमः ।
ॐ वीरलक्ष्म्यै नमः । ॐ ऐश्वर्यलक्ष्म्यै नमः ।

षोडश मातृकार्चना ।।
अं कामाकर्षिण्यै नमः । आं बुद्ध्याकर्षिण्यै नमः ।
इं अहङ्काराकर्षिण्यै नमः । ईं शब्दाकर्षिण्यै नमः ।
उं स्पर्शाकर्षिण्यै नमः । ऊं रूपाकर्षिण्यै नमः ।
ऋं रसाकर्षिण्यै नमः । ॠं गन्धाकर्षिण्यै नमः ।
ऌं चित्ताकर्षिण्यै नमः । ॡं धैर्याकर्षिण्यै नमः ।
एं स्मृत्याकर्षिण्ये नमः । ऐं नामाकर्षिण्ये नमः ।
ॐ बीजाकर्षिण्ये नमः । औं आत्माकर्षिण्ये नमः ।
अं अमृताकर्षिण्ये नमः । अः शरीराकर्षिण्यै नमः ।
कुम्भादि कुम्भगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥

जपप्रकारम् ।।
गुरु प्रार्थना - ॐ नमः श्रीगुरुदेवाय परमपुरुषाय नमः ।।
अष्टैश्वर्यलक्ष्मी देवताः ।।
वशीकराय सर्वारिष्टविनाशनाय त्रैलोक्यवशायै स्वाहा ।।

मूलमन्त्रम् ।।
१ ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः ।।
२ ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै स्वाहा ।।
३ ॐ श्रीं ह्रीं ऐं महालक्ष्म्यै कमलधारिण्ये सिम्हवाहिन्यै स्वाहा ।।

वैदिकमन्त्रम् ।।
महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥

पद्मासने पद्मकरे सर्वलोकैकपूजिते ।
सान्निध्यं कुरु मे चित्ते विष्णुवक्षस्थलालये ॥

भगवद्दक्षिणे पार्श्वे ध्यायेच्छ्रियमवस्थिताम् ।
ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥

।। इति श्रीअष्टलक्ष्मीमन्त्रसिद्धिविधानं सम्पूर्णम् ।।

Post a Comment

0 Comments